#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00201 Uniform title: candrajñānāgama vīraśaiva rescension Main title: candrajñānāgama vīraśaiva rescension Secondary title: candrajñānāgama kriyācaryāpādau Description: vīraśaiva rescension of the candrajñānāgama Notes: Made possible by the authorization and kind permission of ārādhya Candraśekharasvāmī head of jaṃgamavāḍī maṭha vārāṇasī and president of the śaivabhāratī - śodhapratiṣṭhāna Data entered by the staff of Muktabodha under the supervision of Mark S.G. Dyczkowski. Revision 0: January 18, 2010 Publisher : jaṃgamavāḍī maṭha Publication year : Publication city : Publication country : India #################################################### शोधप्रकाशन - ग्रन्थमाला चन्द्रज्ञानागमः (क्रिया - चर्यापादौ) भाषानुवाद - टिप्पणीसहितः सम्पादकः पं० व्रजवल्लभद्विवेदः शैवभारती - शोधप्रतिष्ठान - निदेशकः प्रकाशकः शैवभारती - शोधप्रतिष्ठानम् जंगमवाडी मठ, वाराणसी - २२१००१ चन्द्रज्ञानागमः प्रथमः पटलः कलधौताचलोत्तुङ्गशृङ्गरिङ्गन्निकेतनम् | धर्ममूर्तिधरं श्रीमन्महावृषभकेतनम् || १ || अनन्तरुद्रप्रमथपरिषन्निकषोज्ज्वलम् | अनन्तरुद्रमासाद्य धिषणो धिषणोन्नतः || २ || परिस्पृशन् श्रीपदाब्जपीठं मूर्ध्ना मुहुर्मुहुः | बद्धाञ्जलिः सुप्रसाद्य नीचैर्वाचमुवाच ह || ३ || बृहस्पतिरुवाच भगवन् करुणासिन्धो सर्वज्ञानसमाश्रय | नाविष्कृताश्चेद् भवता स्फुटमागमसंहिताः || जगत् किलान्धतामिस्रे निमज्जेद् ज्ञानवर्जितम् || ४ || अविज्ञायैव यो लोके भवदागमसंहिताः | विपश्चितं स्वं मनुते न तस्माद् विद्यते पशुः || ५ || प्. २) भवत्प्रसादसंपत्त्या भवदीयागमामृतम् | निपीयैवामरगुरुरभवं सिद्धसाधनः || ६ || आकर्णिता मया भागाश्चन्द्रज्ञानागताः शुभाः | बहवस्तदिह ब्रूहि कृपया शिवशासनम् || ७ || मोक्षधर्मा विशेषेण तत्रोच्यन्त इति श्रुतम् | अहं श्रुतेन येन स्यां विदिताशेषवेदनः || ८ || अनन्तरुद्र उवाच युक्तं पृष्टं हि सुधिया त्रिदिवेशगुरो त्वया | शृणुष्वावहितो भुत्वा वक्ष्यामि शिवशासनम् || ९ || पशुपतिपदार्थनिर्वचनम् ब्रह्माद्याः स्थावरान्तन्ताश्च देवदेवस्य शूलिनः | पशवः परिकीर्त्यन्ते संसारवशवर्तिनः || १० || तेषां पतित्वाद् विश्वेशः शिवः पशुपतिः स्मृतः | मलमायादिभिः पाशैः स बध्नानि पशून् पतिः || ११ || प्. ३) स एव मोचकस्तेषां भक्त्या सम्यगुपासितः | चतुर्विंशतितत्त्वानां पाशत्वम् चतुर्विंशतितत्त्वानि मायाकर्मगुणा अमी || विषया इति कथ्यन्ते पाशा जीवनिबन्धनाः || १२ || ब्रह्मादिस्तम्बपर्यन्तान् पशून् बद्ध्वा महेश्वरः | पाशैरेतैः पतिर्देवः कार्यं कारयति स्वकम् || १३ || परशिवस्याज्ञया सर्वज्ञतत्त्वोत्पत्तिः तस्याज्ञया महेशस्य प्रकृतिः पुरुषोचिताम् | बुद्धिं प्रसूते सा बुद्धिरहङ्कारमहङ्कृतिः || १४ || इन्द्रियाणि दशैकं च तन्मात्रपञ्चकं तथा | शासनाद् देवदेवस्य शिवस्य शिवदायिनः || १५ || तन्मात्राण्यपि तस्यैव शासनेन महीयसा | महाभूतान्यशेषाणि भावयन्त्यनुपूर्वशः || १६ || प्. ४) ब्रह्मादीनां तृणान्तानां देहिनां देहसंगतिम् | महाभूतान्यशेषाणि जनयन्ति शिवाज्ञया || १७ || बुद्ध्यादीनां व्यापाराः अध्यवस्यति वै बुद्धिरहङ्कारोऽभिमन्यते | चित्तं चेतयते चाऽपि मनः संकल्पयत्यपि || १८ || श्रोत्रादीनि च गृह्णन्ति शब्दादीन् विषयान् पृथक् | स्वानेव नान्यान् देवस्य दिव्येनाज्ञाबलेन वै || १९ || वागादीन्यपि या न्यासंस्तानि कर्मेन्द्रियाणि च | यथा स्वं कर्म कुर्वन्ति नान्यत् किञ्चिच्छिवाज्ञया || २० || शब्दादयोऽपि गृह्यन्ते क्रियन्ते वचनादयः | अविलङ्घ्या हि सर्वेषामाज्ञा शम्भोर्गरीयसी || २१ || पञ्चभूतोत्पत्तिकथनम् अवकाशमशेषाणां भूतानां संप्रयच्छति | आकाशः परमेशस्य शासनादेव सर्वगः || २२ || प्. ५) प्राणाद्यैश्च तथा नामभेदैरन्तर्बहिर्जगत् | बिभर्ति सर्वं शर्वस्य शासनेन प्रभञ्जनः || २३ || हव्यं वहति देवानां कव्यं कव्याशिनामपि | पाकाद्यं च करोत्यग्निः परमेश्वरशासनात् || २४ || सञ्जीवनाद्यं सर्वस्य कुर्वन्त्यापः शिवाज्ञया | विश्वम्भरा जगन्नित्यं धत्ते विश्वेश्वराज्ञया || २५ || दिक्पालानां शिवाज्ञयैव प्रवृत्तिः देवान् पात्यसुरान् हन्ति त्रिलोकानभिरक्षति | आज्ञया तस्य देवेन्द्रः सर्वदेवैरलङ्घ्यया || २६ || प्. ६) जीवतां व्याधिभिः पीडां मृतानां चैव यातनाः | अधार्मिकाणां धर्मेशः करोति शिवशासनात् || २७ || निर्-ऋतिर्विधिहीनानां फलं हरति कर्मणाम् | निशाचराधिपत्यं च कुरुते शङ्कराज्ञया || २८ || आधिपत्यमपां नित्यं कुरुते वरुणोऽपि च | पाशैर्बध्नाति बध्यांश्च परमेश्वरशासनात् || २९ || ददाति नित्यं यक्षेशो द्रविणं द्रविणेश्वरः | पुण्यानुरूपं भूतेभ्यः पुरशासनशासनात् || ३० || करोति सम्पदः शश्वज्ज्ञानं चापि सुमेधसाम् | निग्रहं चाप्यसाधूनामीशानः शिवशासनात् || धत्ते तु धरणीं मूर्ध्ना शेषः शिवनियोगतः || ३१ || प्. ७) शिवशासनादेव ब्रह्मादीनां सृष्ट्यादिकर्तृत्वम् सृजत्यशेषमीशस्य शासनाच्चतुराननः | तिसृभिर्मूर्तिभिः स्वाभिः पाति चान्ते निहन्ति च || ३२ || विष्णुः पालयते विश्वं विश्वेश्वरनियोगतः | सृजते ग्रसते चापि स्वकाभिस्तनुभिस्तथा || ३३ || हरत्यन्ते जगत् सर्वं हरस्तस्यैव शासनात् | सृजत्यपि च विश्वात्मा त्रिधा भिन्नस्तु रक्षति || ३४ || शिवशासनादेव कालादयः प्रवर्तन्ते कालः करोति सकलं कालः संहरति प्रजाः | कालः पालयते विश्वं कालकालस्य शासनात् || ३५ || त्रिभिरंशैर्जगद्बिभ्रत् तेजोभिर्वृष्टिमादिशन् | दिवि वर्षत्यसौ भानुर्देवदेवस्य शासनात् || ३६ || प्. ८) पुष्यत्योषधिजातानि भूतानि ह्लादयत्यपि | देवैश्च पीयते चन्द्रश्चन्द्रभूषणशासनात् || ३७ || आदित्या वसवो रुद्रा अश्विनौ मरुतस्तथा | खेचरा ऋषयः सिद्धा भोगिनो मनुजा मृगाः || ३८ || शिवशासनादेव स्थावरजङ्गमादीनां सृष्टिः पशवः पक्षिणश्चैव कीटाद्याः स्थावराणि च | नद्यः समुद्रा गिरयः काननानि सरांसि च || ३९ || वेदाः साङ्गाश्च शास्त्राणि मन्त्राः सोममखादयः | कालाग्न्यादिशिवान्तानि भुवनानि सहाधिपैः || ब्रह्माण्डान्यप्यसंख्यानि तेषामावरणानि च || ४० || वर्तमानान्यतीतानि भविष्यन्त्यपि कृत्स्नशः | दिशश्च विदिशश्चैव कालभेदाः कलादयः || ४१ || प्. ९) सर्वं शिवशासनादेव प्रवर्तते यच्च किञ्चिज्जगत्यस्मिन् दृश्यते श्रूयतेऽपि वा | तत्सर्वं शङ्करस्याज्ञाबलेन समधिष्ठितम् || ४२ || आज्ञाबलात् तस्य धरा स्थितेह धराधरा वारिधराः समुद्राः | ज्योतिर्गणाः शक्रमुखाश्च देवाः स्थिरं चरं वा चिदचिद्यदस्ति || ४३ || बन्धमोक्षौ एतावतां पशूनां हि द्विपदां च चतुष्पदाम् | ईशः शिवो बन्धमोक्षौ तद्वशे तिष्ठतो ध्रुवम् || ४४ || दीक्षया शिवप्रसादप्राप्तिः अनन्तजन्ममरणकारणात् पाशसंचयात् | मुमुक्षुराचरेद् दीक्षां शाम्भवीं पाशकृन्तिनीम् || ४५ || न विना तत्प्रसादेन प्राणिनां बन्धविच्युतिः | लभ्यते तत्प्रसादोऽपि नानया दीक्षया विना || वेदानुशासनमिदमेतद् वै शिवशासनम् || ४६ || प्. १०) शाम्भवव्रतस्य भवनिवारकत्वम् वेधामनुक्रियाभिख्यदीक्षात्रितयशोभितम् | षडध्वशुद्धिकलितं गुरुकारुण्यसंभृतम् || भस्मरुद्राक्ष श्रीलिङ्गधारणात्मकमुत्तमम् || ४७ || शाम्भवव्रतमेतद्धि वेदशास्त्रैकचोदितम् | इदं शिवप्रसादैककारणं भववारणम् || ४८ || एकैकमपि चास्याङ्गं मुक्तिदं कीर्तितं श्रुतौ | किमु वाच्यं नु सर्वाङ्गकलितं मोक्षदं त्विति || ४९ || इति श्रीचन्द्रज्ञानागमे उत्तरभागेऽनन्तरुद्रबृहस्पतिसंवादे शिवशासने क्रियापादे शिवाधिक्यकथनं नाम प्रथमः पटलः || १ || द्वितीयः पटलः बृहस्पतिरुवाच सर्वज्ञानसुधाम्बोधे करुणैकविभूषण | शाम्भवीयव्रताङ्गानां माहात्म्यं विनिबोधय || १ || अनन्तरुद्र उवाच अष्टावरणानि गुरुर्लिङ्गं जङ्गमश्च तीर्थं चैव प्रसादकः | भस्मरुद्राक्षमन्त्राश्चेत्यष्टावरणसंज्ञिताः || २ || इमानि शिवभक्तानां भवदोषततेः सदा | निवारणैककार्याणि ख्यातान्यावरणाख्यया || ३ || १. गुरुस्वरूपं महिमा च अष्टानामादितस्त्वेषां स्वरूपं महिमाऽपि च | संग्रहेण प्रवक्ष्यामि शृणुष्वैकाग्रचेतसा || ४ || प्. १२) मोक्षस्य दीक्षासंप्राप्त्यै गुरुः स्यान्मूलकारणम् | न विना गुरुणा सिद्ध्यै साधनानि भवन्त्यलम् || ५ || शिष्यस्तु शिक्षणीयत्वाद् गुरुर्गौरवकारणम् | तस्मात् सर्वप्रयत्नेन गुरोर्गौरवमाचरेत् || ६ || यो गुरुः स शिवः प्रोक्तो यः शिवः स गुरुः स्मृतः | गुरुर्वा शिव एवाथ विद्याकारेण संस्थितः || ७ || शिव - विद्या - गुरूणां समानफलदत्वम् यथा शिवस्तथा विद्या यथा विद्या तथा गुरुः | शिवविद्यागुरूणां च पूजया सदृशं फलम् || ८ || सर्वदेवात्मकश्चासौ सर्वमन्त्रमयो गुरुः | तस्मात् सर्वप्रयत्नेन तस्याज्ञां शिरसा वहेत् || ९ || गुर्वाज्ञापालनेन सत्फलप्राप्तिः श्रेयोऽर्थी यदि गुर्वाज्ञां मनसाऽपि न लङ्घयेत् | गुर्वाज्ञापालको यस्माद् ज्ञानसंपत्तिमश्नुते || १० || प्. १३) गच्छंस्तिष्ठन् स्वपन् भुञ्जन् यद्यत्कर्म समाचरेत् | समक्षं यदि कुर्वीत तत्सर्वं गुर्वनुज्ञया || ११ || गुरोर्गेहे समक्षे वा न यथेष्टासनो भवेत् | गुरुर्देवो यतः साक्षात् तद्गृहं देवमन्दिरम् || १२ || पपिनां च यथा संगात् तत्पापफलभाग् भवेत् | तद्वदाचार्यसङ्गेन तद्धर्मफलभाग् भवेत् || १३ || यथेह वह्निसंपर्कान्मलं त्यजति काञ्चनम् | तथैव गुरुसंपर्कात् पापं त्यजति मानवः || १४ || यथा प्रज्वलितो वह्निर्निष्ठां काष्ठस्य निर्दहेत् | तथाऽयमपि सन्तुष्टो गुरुः पापं क्षणाद् दहेत् || १५ || गुरोः क्रोधेन सर्वनाशः मनसा कर्मणा वाचा गुरोः क्रोधं न कारयेत् | तस्य क्रोधेन दह्यन्ते ह्यायुः श्रीर्ज्ञानसत्क्रियाः || १६ || तत्क्रोधकारिणो ये स्युस्तेषां यज्ञाश्च निष्फलाः | यमाश्च नियमाश्चैव नात्र कार्या विचारणा || १७ || प्. १४) गुरोर्विरुद्धं यद्वाक्यं न वदेज्जातुचिन्नरः | वदेद् यदि महाघोरे रौरवे पतति ध्रुवम् || १८ || नैर्गुण्ये ख्यापिते तस्य नैर्गुण्यशतभाग्भवेत् | गुणे तु ख्यापिते तद्वत् सर्वं पुण्यफलं भवेत् || १९ || गुरोर्हितं प्रियं कुर्यादादिष्टो वा नरः सदा | असमक्षं समक्षं वा तस्य कार्यं समाचरेत् || २० || गुरोरागमने शिष्यस्याचरणम् गुरुं स्वगृहमायान्तं दृष्ट्वा भक्तियुतो जनः | नत्वा तदासनं दत्त्वा चासीत तदनुज्ञया || २१ || स्वाचार्यचरणद्वन्द्वप्रक्षालितजलं सदा | यः पिबेद् धारयेद्भक्त्या सर्वपापैः प्रमुच्यते || २२ || चन्दनं चाक्षतं पुष्पं स्वर्णं ताम्बूलमम्बरम् | पात्रे निधाय गुरवे शिष्यो दद्यान्न पाणिना || २३ || प्. १५) संभोजयित्वा स्वगुरुं पश्चाद् भुञ्जीत बुद्धिमान् | गुरोः पुरस्ताद्यो भुङ्क्ते गुरुद्रोही स उच्यते || २४ || ताम्बूलमुत्तमं तस्मै ततः पात्रेण दापयेत् | पश्चादिष्टानि वस्तूनि दत्त्वा नत्वा क्षमापयेत् || २५ || शुभकार्येषु सर्वेषु विवाहादिषु भक्तितः | गुरुमभ्यर्चयेच्छिष्यो वस्त्रैर्हैमाङ्गुलीयकैः || २६ || दरिद्रश्चोदितेष्वेषु निजशक्तिमवञ्चयन् | अवश्यमर्चयेच्छिष्यो गुरुं लब्धधनेन वा || २७ || गुरुयात्राफलाधिक्यम् गुरुयात्रा देवयात्रा तीर्थयात्रेति च त्रिधा | आसां त्रिविधयात्राणां गुरुयात्रा फलाधिका || २८ || गुरुसंदर्शनार्थाय भक्त्या यात्रां करोति यः | पुण्यदेही स विज्ञेयः समस्तामरवल्लभः || २९ || शिष्यो गुरुस्थितं ग्रामं प्रविशन् वाहनादिकम् | वर्जयेद् गृहसामीप्ये तथा वै पादुकानि च || ३० || प्. १६) गुरुसेवाविधानम् गुरुं दिदृक्षुर्यः शिष्यः सद्भक्त्याऽनुदिनं मुदा | रिक्तपाणिर्न संपश्येद्यथा राजा तथा गुरुः || ३१ || फलं प्रसूनं ताम्बूलमन्यत् किमपि वस्तु च | तेष्वेकं गुरवे दत्त्वा नमस्कुर्यात् ततो गुरुम् || ३२ || श्रीमानपि तपस्वी च शास्त्रज्ञः कुलशीलवान् | कुर्याद्दण्डनमस्कारं निर्लज्जो गुरुसन्निधौ || ३३ || उपचारेषु सर्वेषु द्वावेवात्यन्तशोभनौ | प्रियवाणी प्रणामश्च तौ विनाऽन्ये वृथा स्मृताः || ३४ || गुरुप्रदक्षिणा अग्रे दृष्ट्वा नमस्कृत्य प्रदक्षिणमनुस्मरन् | प्रदक्षिणं च कुर्वीत यथा शक्त्यनुसारतः || ३५ || प्रदक्षिणज्ञो यो धीमान् न तु दीर्घपदं न्यसेत् | न गच्छेत् त्वरितो धीमान् न वदेदितरैः सह || ३६ || पदे पदान्तरं न्यस्य करौ चलनवर्जितौ | स्तुतिं वाचा हृदा ध्यानमेवं कुर्यात् प्रदक्षिणम् || ३७ || प्. १७) गुरोः पुरतः शिष्यस्याचरणम् स्वगुरोः पुरतः शिष्यो नेतरान् कीर्तयेज्जनान् | असह्यभाषणं चैव न वदेदितरेतरम् || ३८ || नानृतं नाप्रियं वाक्यं न गुह्यं चापि भाषयेत् | नाप्रच्छन्नमुखो ब्रूयाद् गुरोरग्रे कदाचन || ३९ || स्वामि - भट्टारकाचार्य - देव - श्रीगुरुनामभिः | वाच्यः सदा गुरुः शिष्यैर्जातुचिन्नान्यनामभिः || ४० || त्वंशब्दं न प्रयुञ्जीत गुरौ शिष्यः कदाचन | आज्ञां न लङ्घयेत् तस्य समं नोपविशेत् तथा || ४१ || आसनं वाहनं वस्त्रं भूषणं शयनं तथा | न कुर्याद् गुरुसादृश्यं गतिसिद्धिहितेप्सुभिः || ४२ || पात्रं स्नानजलं छायां माल्योपकरणानि च | भक्तिहीनोऽपि पादाभ्यां न स्पृशेन्नैव लङ्घयेत् || ४३ || गुरोरुपेक्षा हानिकरी यः पश्यति गुरुं शिष्यः साधारणमनुष्यवत् | तस्य भक्तिर्वृथा विद्वन् भवत्यत्र न संशयः || ४४ || प्. १८) समस्तदेवतावासं सर्वमन्त्रास्पदं गुरुम् | उपेक्षते यः पापात्मा रौरकं नरकं व्रजेत् || ४५ || गुरुभक्तिमहिमा गुरावत्यन्तभक्तस्य शिष्यस्येह परत्र च | न किञ्चिद् दुर्लभं विद्वन् समस्तं सुलभं सदा || ४६ || इत्थमाचारवान् भक्त्या नित्यमुद्युक्तमानसः | गुरुप्रियकरः शिष्यः सर्वान् धर्मांस्तथार्हति || ४७ || गुरुलक्षणम् गुरुश्च गुणवान् प्राज्ञः परमान्दभासकः | तत्त्वविच्छिवसंसक्तो मुक्तिदो न तु चापरः || ४८ || शैवसिद्धान्ततत्त्वज्ञः प्रतिष्ठामन्त्रपारगः | मोक्षदः करुणोपेतो वीतरागो विमत्सरः || ४९ || क्रियादिज्ञानपर्यन्तशिवतत्त्वविनिश्चयः | सम्प्रदायागतज्ञानो गुरुवंशसमुद्भवः || ५० || प्. १९) लिङ्गाङ्गस्थलभेदज्ञः षट्स्थलज्ञानतत्परः | दीक्षाकर्मादिकुशलः षडध्वज्ञानवत्सलः || ५१ || शिवस्य च गुरोर्भक्तः शिवैकाहितमानसः | शिवार्चनासक्तचित्तः शिवध्यानैकतत्परः || ५२ || गृहस्थस्यैव गुरुत्वसमर्थनम् | गुरुर्गृहस्थ एव स्यान्न कदाचिद्यतिर्गुरुः | वानप्रस्थयतीनां तु गुरुत्वं निष्फलं भवेत् || ५३ || गुरुतत्त्वनिर्णयः गुरवो बहवः सन्ति शिष्यवित्तापहारकाः | दुर्लभोऽयं गुरुर्लोके शिष्यहृत्तापहारकः || ५४ || संवित्तिजननं सत्यं परानन्दसमुद्भवम् | तत्तत्त्वं विदितं येन स एवानन्ददर्शकः || ५५ || स पुनर्नाममात्रेण संवित्तिरहितस्तु यः | अन्यं न तारयेदज्ञः किं शिला तारयेच्छिलाम् || ५६ || प्. २०) एषा तन्नाममात्रेण मुक्तिर्वै नाममात्रिका | यैः पुनर्विदितं तत्त्वं ते मुक्ता मोचयन्त्यपि || ५७ || तत्त्वहीने कुतो बोधः कुतो ह्यात्मपरिग्रहः | परिग्रहविनिर्मुक्तः पशुरित्यभिधीयते || ५८ || पशुभिः प्रेरितश्चापि पशुत्वं नातिवर्तते | तस्मात्तत्त्वं विदित्वेह मुक्तो मोचक इष्यते || ५९ || सर्वलक्षणयुक्तोऽपि सर्वशास्त्रं विदन्नपि | सर्वोपायविधिज्ञोऽपि तत्त्वहीनस्तु निष्फलः || ६० || दुष्टगुरुलक्षणम् व्यसनी वामनः कुब्जो कोपी च कुटिलः खलः | चपलोऽधिकहीनाङ्गः पापीयान् सूचकोऽन्त्यजः || ६१ || व्याधिगस्तार्किकः शूरः काकनादो बकव्रती | गुरुदेवद्विजातीनां निन्दको वृषलीपतिः || ६२ || प्. २१) लम्बोष्ठो वक्रनासश्च गलीनः (लितः) कलहप्रियः | परापवादशीलश्च वर्जनीयो गुरुः स्मृतः || ६३ || अधोदृष्टिर्नैष्कृतिकः स्वार्थसाधनतत्परः | शठो मिथ्याविनीतश्च बकव्रतचरो द्विजः || ६४ || योग्यगुरुवरणम् यस्यानुभवपर्यन्ता मतिस्तत्त्वे प्रतिष्ठिता | तस्यावलोकनाद्यैश्च परानन्दोऽभिजायते || ६५ || तस्माद्यस्यैव संपर्कात् प्रबोधानन्दसंभवः | गुरुं तमेव वृणुयान्नापरं मतिमान्नरः || ६६ || शिष्यलक्षणं तत्कर्तव्यं च तत्रादावुपसंगम्य ब्राह्मणं वेदपारगम् | गुरुमाराधयेत् प्राज्ञं सुभगं प्रियदर्शनम् || ६७ || सर्वाख्येयप्रदातारं करुणाक्रान्तमानसम् | तोषयेत् तं प्रयत्नेन मनसा कर्मणा गिरा || ६८ || तावदाराधयेच्छिष्यः प्रसन्नोऽसौ भवेद्यथा | तस्मिन् प्रसन्ने शिष्यस्य सद्यः पाशक्षयो भवेत् || ६९ || प्. २२) तस्माद्धनानि रत्नानि क्षेत्राणि च गृहाणि च | भूषणानि च वासांसि यानशययासनानि च || ७० || एतानि गुरवे दद्याद् भक्त्या वित्तानुसारतः | वित्तशाठ्यं न कुर्वीत यदीच्छेत् परमां गतिम् || ७१ || स एव जनको माता भ्राता बन्धुजनः स्वयम् | मित्रं धनं च यत्तस्मात् सर्वं तस्मै निवेदयेत् || ७२ || निवेद्य पश्चात् स्वात्मानं सान्वयं सपरिग्रहम् | समर्प्य सादरं तस्मै नित्यं तद्वशगो भवेत् || ७३ || यदा शिवाय स्वात्मानं दत्तवान् देशिकात्मने | तदा शैवो भवेद् देही न ततोऽस्ति पुनर्भवः || ७४ || देशिकाकृतिमास्थाय पशोः पाशानशेषतः | छित्वा परं पदं देवो नयत्येनमसंशयम् || ७५ || शिष्यपरीक्षा गुरुस्तु स्वाश्रितं शिष्यं परीक्षेद् वर्षमेककम् | ब्राह्मणं क्षत्रियं वैश्यं द्वित्रिवर्षकमेव वा || ७६ || प्. २३) प्राणद्रव्यप्रदानाद्यैरादेशैश्च समासमैः | उत्तमांश्चाधमे कृत्वा नीचानुत्तमकर्मणि || ७७ || आकृष्टास्ताडिता वा ये विषादं नैव यान्त्यपि | ते योग्याः सततं शुद्धाः शिवसंस्कारकर्मणि || ७८ || अहिंसका दयावन्तो नित्यमुद्युक्तचेतसः | अमानिनो बुद्धिमन्तस्त्यक्तस्पर्धाः प्रियंवदाः || ७९ || ऋजवो मृदवः स्वच्छा विनीताः स्थिरचेतसः | शौचाचारसमोपेताः शिवभक्ता द्विजातयः || ८० || एवं वृत्तसमोपेता वाङ्मनःकायकर्मभिः | शोध्या बोध्या यथान्याययमिति शास्त्रविनिश्चयः || ८१ || गुरुमहिमा शिवे रुष्टे गुरुस्त्राता न रुष्टे निजसद्गुरौ | त्राता शिवस्तदेतस्माद् गुरुपूजारतो भवेत् || ८२ || यः स्वस्य गुरुपूजां तु त्यक्त्वा शिवपदं यजेत् | पराङ्मुखः शिवस्तस्य नरकं संप्रयच्छति || ८३ || प्. २४) गुरुपूजाफलम् एतत्सर्वं परिज्ञाय पूजां कुर्याद् गुरोः स्वयम् | गुरुः पूजाभिसंतुष्टः स्वसायुज्यं प्रयच्छति || ८४ || कार्तिके सोमवारे च पुष्पैः पत्रैः फलैर्यजेत् | शक्तश्चेत्तस्य पूजायां मासमेकमतन्द्रितः || त्रिकालं वाऽथ षट्कालं प्रदोषे वा समर्चयेत् || ८५ || भूतिरुद्राक्षभूषाढ्यः पञ्चाक्षरमनुं जपन् | त्वरया गुरुसामीप्यं गतस्तत्पादपङ्कजौ || नमस्कृत्वाऽनयेद् भक्त्या स्वगृहं प्रति तं गुरुम् || ८६ || गृहागतस्य गुरोः सत्कारः आन्दोलिकायामारोप्य गजे वाऽपि तुरङ्गमे | अनुगच्छेत् स्वयं भक्त्या वाद्यघोषसमन्वितः || ८७ || गृहं नीत्वा गुरुं पश्चात् क्षालयंस्तत्पदद्वयम् | तेनोदकेन शिरसि संप्रोक्ष्य स्वजनैः सह || ८८ || दत्त्वा हस्तावलम्बं च ततो नीत्वा गृहान्तरम् | प्रकल्प्य चासनं श्रेष्ठं निवेश्य प्रीतिपूर्वकम् || यथा विध्यवधानेन पूजयेद् गुरुमव्ययम् || ८९ || प्. २५) गुरोः समर्चासमये दीपानष्टोत्तरं शतम् | षट्त्रिंशद्वा यथा शक्ति ज्वालयेदन्वहं बुधः || त्रयोदश्यादिषु गुरुमर्चयेद् भव्यमण्टपे || ९० || उक्तं यद्गुरुणा पूर्वं शक्यं वाऽशक्यमेव च | करोत्येव हि पूतात्मा प्राणैरपि धनैरपि | शरीराद्यर्थकं सर्वं गुरुं दद्यात् स शिष्यकः || ९१|| माहेश्वरान् सपत्नीकान् पत्न्या सह दृढव्रतः | पूजयेद् भोजनाद्यैश्च पञ्च वा दश वा शतम् || अग्रपाकं निवेद्याग्रे भुञ्जीयाद् गुर्वनुज्ञया || ९२ || धनरूपैः पादुकाद्यैः पादसंग्रहणादिभिः | स्नानाभ्यञ्जननैवेद्यभोजनैश्चापि पूजयेत् || ९३ || गुरुप्रसादग्रहणम् गुरुपूजैव पूजा स्याच्छिवस्य परमात्मनः | गुरुशेषं तु तत्सर्वमात्मशुद्धिकरं भवेत् || ९४ || तस्माद् गुरुमुखात् कर्म ज्ञानं चापि विशेषतः | ज्ञात्वा कर्तव्यमखिलं भोगमोक्षोपलब्धये || ९५ || गुरुप्रसादपात्रं यः स हि मोक्षाय कल्पते | न मुक्तिमूलमन्यद्धि विहाय गुरुसत्कृपाम् || ९६ || प्. २६) गुरुरूपं सुराचार्य लोकानुग्रहकाङ्क्षया | आद्यमावरणं प्रोक्तं किमतः श्रोतुमिच्छसि || ९७ || इति श्रीचन्द्रज्ञानागमेऽनन्तरुद्रबृहस्पतिसंवादे शिवशासने क्रियापादे गुरुस्वरूपनिरूपणं नाम द्वितीयः पटलः || २ || तृतीय पटलः बृहस्पतिरुवाच अनन्तज्ञाननिलय लोकानुग्रहतत्पर | अनन्तरुद्र भगवन् धन्यो भवदनुग्रहात् || १ || असीमानं वरगुरोर्भूमानं श्रीमदाननात् | श्रावंश्रावं निमग्नोऽस्मि निर्भरानन्दवारिधौ || २ || अथ द्वितीयं शुश्रूषुः शिवलिङ्गं सुपावनम् | तस्य रूपं महत्त्वं च वद मे करुणाकर || ३ || अनन्तरुद्र उवाच अहो निबोधयिष्यामि महालिङ्गस्य वै भवम् | यज्ज्ञात्वामुच्यते जन्तुरचिरेण बृहस्पते || ४ || २. लिङ्गस्वरूपं महिमा च पूर्वमेकार्णवे घोरे नष्टे स्थावरजङ्गमे | मध्ये समुत्थितं लिङ्गमैश्वरं तैजसं परम् || ५ || ज्वालामालावृतं दिव्यमप्रमेयमनामयम् | कल्पान्ते तत्र लीयन्ते वर्तन्ते सर्वदेवताः || ६ || प्. २८) हृदये चैव गायत्री सर्वदेवोत्तमोत्तमा | लीयन्ते मूर्ध्नि वै वेदाः सषडङ्गपदक्रमाः || ७ || जठरे लीयते सर्वं जगत् स्थावरजङ्गमम् | पुनरुत्पद्यते यस्मात् तद्ब्रह्म लिङ्गसंज्ञकम् || ८ || अव्यक्तं लिङ्गमाख्यातमनन्तमजरं ध्रुवम् | गुणत्रयं तदेवेशः सृजत्यवति हन्ति च || ९ || शिवलिङ्गं चतुर्विधम् तदेव शिवलिङ्गं हि तल्लिङ्गं तु चतुर्विधम् | परबिन्दुः परो नादश्चापरौ बिन्दुनादकौ || उपर्यधोभागनिष्ठाश्चत्वारोऽपि सुरार्चित || १० || अधः स्यादपरो बिन्दुस्तदूर्ध्वमपरो ध्वनिः | तदूर्ध्वं परबिन्दुः स्यात् परनादस्तदूर्ध्वगः || ११ || प्. २९) प्रणवो वेदिरस्यायं नादो लिङ्गाकृतिर्मुखे | बिन्दुनादमये लिङ्गे नित्यं सन्निहितः शिवः || १२ || बिन्दुनादात्मकं जगत् बिन्दुनादात्मकं सर्वं जगत् स्थावरजङ्गमम् | बिन्दुः शक्तिः शिवो नादः शिवशक्त्यात्मकं जगत् || १३ || नादाधारमयं बिन्दुर्बिन्द्वाधारमिदं जगत् | जगदाधारभूतौ हि बिन्दुनादौ व्यवस्थितौ || १४ || बिन्दुनादयुतं सर्वं सकलीकरणं भवेत् | सकलीकरणाज्जन्म जगत् प्राप्नोत्यसंशयम् || १५ || बिन्दुनादात्मकं लिङ्गं जगत्कारणम् बिन्दुनादात्मकं लिङ्गं जगत्कारणमुच्यते | तस्माज्जन्मनिवृत्त्यर्थं शिवलिङ्गं प्रपूजयेत् || १६ || माता देवी बिन्दुरूपा नादरूपः शिवः पिता | पितृभ्यां दत्तमैश्वर्यं यथा भोगाय कल्प्यते | तयोरैश्वर्यलाभार्थं शिवलिङ्गं प्रपूजयेत् || १७ || प्. ३०) मातापितृरूपं शिवलिङ्गम् सा देवी जगतां माता स शिवो जगतः पिता | पित्रोः शुश्रूषुके नित्यं कृपाधिक्यं हि वर्धते || कृपयाऽन्तर्गतैश्वर्यं पूजकस्य ददाति हि || १८ || तस्मादन्तर्गतानन्दलाभार्थं मुनिपुङ्गव | पितृमातृस्वरूपं हि शिवलिङ्गं प्रपूजयेत् || १९ || महालिङ्गस्वरूपम् निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम् | प्रत्यस्तमितभेदं यत् सत्तामात्रमगोचरम् || वचसामात्मसंवेद्यं तन्महालिङ्गमुच्यते || २० || ऋतं सत्यं परं ब्रह्म सच्चिदानन्दलक्षणम् | अनन्यपरमं ब्रह्म तदतो ध्येयमास्तिकैः || २१ || ततः सर्वं परित्यज्य महालिङ्गैकतत्परः | निर्ममो निरहङ्कारस्तद्ध्याननिरतो भवेत् || २२ || प्. ३१) महालिङ्गस्य त्रैविध्यम् महालिङ्गं त्रिधा जातं सुजनानुजिघृक्षया | प्रथमं भावलिङ्गं तु द्वितीयं प्राणलिङ्गकम् | तृतीयमिष्टलिङ्गं स्यादित्येवं त्रिविधं मतम् || २३ || निष्कलं भावलिङ्गं स्याद् भावग्राह्यं परात्परम् | प्राणलिङ्गं मनोग्राह्यं भवेत् सकलनिष्कलम् || २४ || सकलं दृक्कलाग्राह्यमिष्टलिङ्गं प्रकीर्तितम् | इष्टसिद्धिकरं सम्यगनिष्टपरिहारकम् || २५ || षड्विधलिङ्गनिरूपणम् भावादिलिङ्गत्रितयं द्विविधं द्विविधं भवेत् | भावलिङ्गं महालिङ्गप्रसादाभिख्यकं द्वयम् || २६ || प्राणलिङ्गं तथा चरशिवलिङ्गद्वयं भवेत् | इष्टं तु गुरुलिङ्गाख्यमाचाराख्यं द्वयं भवेत् || २७ || आचारलिङ्गमाख्यातं सद्योजातमुखात्मकम् | गुरुलिङ्गं तथा वामदेववक्त्रात्मकं भवेत् || २८ || शिवलिङ्गं तथाऽघोरमुखरूपं भवेत् पुनः | चरलिङ्गं भवत्येव तत्पूरुषमुखात्मकम् || २९ || प्. ३२) प्रसादलिङ्गं कथितमीशानमुखसंज्ञकम् | महालिङ्गं तथाऽखण्डशिवरूपं प्रकीर्तितम् || ३० || इष्टलिङ्गे शिवः पूजनीयः लिङ्गे संपूजनाद् ध्यानाच्छम्भुः सम्यक्प्रसीदति | ध्यायते पूज्यते चैव लिङ्गे सन्निहितः शिवः || ३१ || इष्टलिङ्गे ततो नित्यं पूजनीयः परः शिवः | ध्येयश्च सततं विद्वन् लिङ्गरूपोऽम्बिकापतिः || ३२ || आधारादिषु प्राणलिङ्गध्यानम् आधारे कनकप्रख्यं हृदये विद्रुमप्रभम् | भ्रूमध्ये दीपसंकाशं प्राणलिङ्गं प्रकीर्तितम् || ३३ || ज्योतिर्लिङ्गमिदं विद्वन् ध्यानस्थानं महेशितुः | ज्योतिर्लिङ्गं विभाव्यैव तत्र ध्येयः परः शिवः || ३४ || प्राणेष्वन्तर्मनः स्थानं हृदयाब्जगतं शिवम् | लिङ्गं यत् तदिह ग्राह्यं प्राणलिङ्गसमाह्वयम् || ३५ || ज्योतीरूपं तदेव स्यात् स्थानं मुख्यं महेशितुः | तत्र निध्यायमानं तु शम्भुर्मोचयतेऽचिरात् || ३६ || प्. ३३) भावलिङ्गलक्षणम् सच्चित्सुखमयं शान्तमादिमध्यान्तवर्जितम् | निष्कलं शाम्भवं यत्तदरूपं रूपमुच्यते || तद्भावनास्पदं विद्वन् भावलिङ्गं प्रकीर्तितम् || ३७ || भावग्राह्यं मनोऽतीतं भावाभावपरं शिवम् | कलासर्गकरं सत्यं भावलिङ्गं प्रकीर्तितम् || ३८ || प्रत्याहृतेन्द्रियग्रामैरमनस्कपदास्पदैः | पदे तुरीयातीताख्ये भावनीयं तु योगिभिः || ३९ || विस्मृतेतरभावानुभाविताखण्डतत्त्वकैः | योगिभिर्भाव्यते नित्यं भावलिङ्गं महात्मभिः || ४० || भावलिङ्गानुभावात्तपरानन्दामृताब्धयः | निस्पृहा निर्भयाः शान्ता जीवन्मुक्ता न संशयः || ४१ || प्. ३४) लिङ्गत्रयाराधनम् ज्योतीरूपं प्राणलिङ्गं हृदयाब्जे प्रतिष्ठितम् | हृदये वा भ्रुवोर्मध्ये तुरीये ध्येयमास्तिकैः || ४२ || ध्यानस्य शम्भोः पूजायाः स्थानमिष्टं भवेद्बहिः | जाग्रद्दशायां संसेव्यं भोगमोक्षफलार्थिभिः || ४३ || तथैवान्तरगं स्थानं प्राणलिङ्गं प्रकीर्तितम् | सेव्यमेतत् तुरीये स्याद् भवबन्धमुमुक्षुभिः || ४४ || इष्टं स्थूलतनोः प्रोक्तं प्राणं सूक्ष्मतनोः स्मृतम् | भावाख्यं कारणस्यैवं तनुत्रयगतं त्रयम् || ४५ || मलत्रयक्षपणी दीक्षा आणवं मायिकं चैव कार्मिकं च यथा क्रमम् | मलत्रयमनादीदं तनुत्रयगतं भवेत् || ४६ || तनुत्रयगतानादिमलत्रयमिदं गुरुः | दीक्षात्रयेण निर्दग्ध्वा लिङ्गत्रयमुपादिशेत् || ४७ || प्. ३५) लिङ्गत्रयाराधनमहिमा पूजयन्निष्टलिङ्गं तु निध्यायन् प्राणलिङ्गकम् | भावयन् भावलिङ्गं वै मृत्युपाशांश्छिनत्ति सः || ४८ || सर्वदेवमयं लिङ्गं तस्मिन् साक्षाच्छिवः स्वयम् | अनुग्रहाय वसति तस्माल्लिङ्गं प्रपूजयेत् || ४९ || पृथिव्यां यानि तीर्थानि पुण्यान्यायतनानि च | लीयन्ते लिङ्गमूले तु तस्माल्लिङ्गं प्रपूजयेत् || ५० || आकाशं लिङ्गमित्याहुः पृथिवी तस्य पीठिका | आलयः सर्वभूतानां लयनाल्लिङ्गमुच्यते || ५१ || यस्तु पूजयते नित्यं लिङ्गं त्रिभुवनेश्वरम् | स सर्वमोक्षराज्यस्य क्षिप्रं भवति भाजनम् || ५२ || सर्वे लिङ्गमया लोकाः सर्वं लिङ्गे प्रतिष्ठितम् | तस्मात् संपूजयेल्लिङ्गं यदीच्छेत् सिद्धिमात्मनः || ५३ || शिवलिङ्गस्वरूपम् च महिमानं च शाश्वतम् | न्यबोधयं देवगुरो किमतः श्रोतुमिच्छसि || ५४ || इति श्रीचन्द्रज्ञानागमे उत्तरभागे अनन्तरुद्रबृहस्पतिसंवादे शिवशासने क्रियापादे लिङ्गस्वरूपनिरूपणं नाम तृतीयः पटलः || ३ || चतुर्थः पटलः बृहस्पतिरुवाच करुणाकर सर्वज्ञ भक्तानुग्रह तत्पर | सर्वागमामृतनिधेऽनन्तरुद्र नमोऽस्तु ते || १ || धन्योऽस्मि शिवलिङ्गस्य वैभवाकर्णनादहम् | लक्षणं जङ्गमस्यापि माहात्म्यं ब्रूह्यनुग्रहात् || २ || अनन्तरुद्र उवाच अहो निबोधयाम्यद्य शृणु जङ्गमवैभवम् | निगूढमागमान्तेषु यज्ज्ञात्वाऽमृतमश्नुते || ३ || ३. जङ्गमलक्षणं महिमा च जङ्गमं स्थावरं चेति शम्भो रूपद्वयं स्मृतम् | स्थावरं च सयंव्यक्तं प्रतिष्ठितमिति द्विधा || ४ || स्वयंव्यक्तं तत्र भवेत् काशीविश्वेश्वरादिकम् | प्रतिष्ठितं कर्षणाद्यैः संस्कृतं मानुषैर्भवेत् || ५ || प्. ३८) द्विविधो जङ्गमः जङ्गमं द्विविधं प्रोक्तं मान्त्रिकं सहजं त्विति | मान्त्रिकं मन्त्रसामर्थ्यादावाहितमुदीरितम् || ध्रियमाणं महाशैवैश्चरलिङ्गादिकं मुने || ६ || सहजं जङ्गमं माहेश्वर इत्यभिधीयते | माहेश्वरश्चरो भक्तः शैवो जङ्गम इत्यपि || सहजस्याभिधानानि भवन्तीश्वरशासनात् || ७ || त्रिविधः सहजजङ्गमः ब्रह्मचारी गृही चैव निराभारीति ते त्रयः | यथोत्तरं विशिष्यन्ते पूजनीया यथा विधि || ८ || भक्तिचिह्नानि वक्ष्यामि भक्तिचिह्नानि प्रीती रुद्राक्षधारणे | भस्मत्रिपुण्ड्रे विश्वासः श्रद्धा पञ्चाक्षरे शुभे || ९ || प्. ३९) आसक्तिः शिवशुद्धे चात्यादरो लिङ्गधारणे | चरान्तरे परा प्रीतिः शिवकार्ये मनोजयः || १० || शैवशास्त्रे परा श्रद्धा तदध्यापनमन्वहम् | स्वयमध्ययनं चापि चरलक्ष्माणि निश्चिनु || ११ || चर (जङ्गम) दशचिह्नानि तेषां बाह्यानि चिह्नानि दश सन्ति बृहस्पते | प्रथमं भस्मरुद्राक्षलिङ्गधारणमीरितम् || द्वितीयं गुरुसेवा च शिवस्तोत्रं तृतीयकम् || १२ || नामोच्चारणमीशस्य चतुर्थं परिकीर्तितम् | पञ्चमं देवदेवस्य पूजनं समुदीरितम् || १३ || षष्ठं शिवागमार्थानुसन्धानमिति चोदितम् | तथा शिवपुराणानां श्रवणं सप्तमं विदुः || १४ || नमस्कारश्चराणां च परिकीर्तितमष्टमम् | नवमं शिवभक्तानां गृहभोजनमीरितम् || १५ || दानं च दशमं ज्ञेयं जङ्गमे च गुरावपि | एवम् बाह्यानि चिह्नानि कथितानि दशैव तु || १६ || प्. ४०) आन्तराणि त्रीणि चिह्नानि त्रीण्यान्तराणि चिह्नानि कथितानि महात्मनाम् | शृणु तानि यथा विद्वन् मानसः प्रथमो जपः || १७ || पूजा च मानसी ज्ञेया द्वितीया परमेशितुः | साक्षात्कारस्तृतीयस्तु स्वान्तरे परमेशितुः || १८ || आन्तराण्यपि बाह्यानि येषां सन्ति यदा पुनः | तदाऽपराणि चिह्नानि दश तेषां भवन्ति हि || १९ || अपराणि दश चिह्नानि कण्ठे विकारः प्रथमं गद्गदाख्यं द्वितीयकम् | जिह्वास्पन्दस्तृतीयं तु स्फुरणं त्वोष्ठयोरपि || २० || कम्पनं च शरीरस्य चतुर्थं भक्तिलक्षणम् | रोमाञ्चः पञ्चमं षष्ठं स्वेदश्च कीर्तितम् || २१ || स्खलनं सप्तमं ज्ञेयमष्टमं बाष्पनिर्गमः | रोदनं नवमं चिह्नं दशमं पारवश्यकम् || एतानि दशचिह्नानि भक्तेरुक्तानि शूलिना || २२ || उक्तान्येतानि चिह्नानि येषां सन्ति महात्मनाम् | ते भक्ताः शाङ्करा ज्ञेयाः सर्वलोकैकपावनाः || २३ || प्. ४१) भक्तमहिमा अपारो भक्तमहिमा तद्वक्तुं केन शक्यते | स्वभक्तान् देवदेवोऽपि यत् स्वस्मान्मनुतेऽधिकान् || २४ || अगस्त्यः कुम्भजन्मा तु शिवभक्त्यैव केवलम् | पपौ समुद्रमतुलं शिवभक्त्युपबृंहितः || २५ || अणुर्महत्त्वं संयाति महच्चाणुत्वमाव्रजेत् | स्थलं जलधितां याति जलधिः स्थलतां व्रजेत् || २६ || संकल्पमात्रतो येषां शिवानुभवशालिनाम् | महिमा वाङ्मनोदूरस्तेषां कैर्वक्ष्यते कथम् || २७ || तस्मात् सर्वोत्तमा भक्ताः शिवेनैवोदितं पुरा | यद्यदिच्छन्ति मे भक्तास्त्रैलोक्येऽपि च दुर्लभम् || तत् सद्यः साधयिष्यामि व्रतमेतत् सदा मम || २८ || चर (जङ्गम) महिमा ऐहिकामुष्मिका भोगा मोक्षस्तत्संगतो भवेत् | चरसंगस्तु सर्वेषां सर्वकामफलप्रदः || २९ || तत्पादपांसुभिः पूतं भवनं चेतरद् वनम् | प्. ४२) तद्यथा शक्ति संपूज्या जङ्गमा हि हितेप्सुना || यदमी मानुषाकाराः प्रत्यक्षपरमेश्वराः || ३० || त्रिविधा चरभक्तिः चरेऽधिका स्वेष्टलिङ्गादुत्तमा भक्तिरुच्यते | चरेष्टलिङ्गयोस्तुल्या मध्यमेति निगद्यते || ३१ || चरे न्यूना स्वेष्टलिङ्गात् कनिष्ठा भक्तिरुच्यते | तस्माद्धि कुशलो नित्यमुत्तमां भक्तिमाश्रयेत् || ३२ || चरपूजा गरीयसी सर्वतीर्थाभिषेकाच्च सर्वयज्ञविधानतः | सर्वदेवाराधनाच्च चरपूजा गरीयसी || ३३ || दूरे विलोक्य माहेशानभिगम्याभिवाद्य च | गृहमानीय यष्टव्यमित्येतच्छिवशासनम् || ३४ || चरो लोकहितार्थी स्यादहं चरहिते रतः | इति चरान् सुयष्टव्यमित्येच्छिवशासनम् || ३५ || जङ्गमानसमर्च्यैव मत्पूजा क्रियते यदि | सा पूजा विफलैव स्यादित्येतच्छिवशासनम् || ३६ || प्. ४३) तदात्महितमाकाङ्क्षामाणः संपूजयेच्चरान् | तेषां यथा मनस्तृप्तिः सैव पूजा निगद्यते || ३७ || इदं ते चरमाहात्म्यं भोगमोक्षार्थसिद्धिदम् | कथितं संग्रहेणाथ किमन्यच्छ्रोतुमिच्छसि || ३८ || इति चन्द्रज्ञानागमे उत्तरभागे अनन्तरुद्रबृहस्पतिसंवादे शिवशासने क्रियापादे जङ्गमस्वरूपनिरूपणं नाम चतुर्थः पटलः || ४ || पञ्चमः पटलः बृहस्पतिरुवाच अशेषज्ञाननिलय लोकानुग्रहतत्पर | अनन्तमहिमाम्बोधेऽनन्तरुद्र नमोऽस्तु ते || १ || महिमानमिहानन्तं चराणां शिवयोगिनाम् | कृतकृत्योऽस्मि विश्वात्मन्नाकर्ण्य श्रीमदाननात् || २ || शुश्रूषुरद्य भूमानं पादतीर्थप्रसादयोः | तमप्यावेद्य विश्वेश कृपयाऽनुग्रहाण माम् || ३ || अनन्तरुद्र उवाच शृणु ते कथयिष्यामि पादतीर्थप्रसादयोः | स्वरूपमपि माहात्म्यमीश्वरेण प्रकाशितम् || ४ || पादतीर्थस्य त्रैविध्यम् पादतीर्थं त्रिधा शम्भोर्गुरुजङ्गमयोरपि | दीक्षा शिक्षा ज्ञानमिति त्रिसंज्ञं तद्भवत्यहो || ५ || गुरुलिङ्गजङ्गमपादोदकव्यवस्था पादतीर्थं सदा पेयं भवबन्धमुमुक्षुभिः | गुरोरपीष्टलिङ्गस्य चरस्यापि विशेषतः || ६ || प्. ४५) गुरोश्चरस्य चालाभे इष्टलिङ्गपदोदकम् | लब्ध्वा गुर्वादिपादोदं भावयेन्मनसैव तत् || ७ || चरवर्जं गुरोर्लाभे लब्ध्वा गुरुपदोदकम् | गुरुजङ्गमपादोदं लब्धवानिति भावयेत् || ८ || गुरुवर्जं चरप्राप्तौ लब्ध्वा चरपदोदकम् | तदेव गुरुपादोदमिति मत्वा पिबेत् तदा || ९ || पाद्यं दत्वा विभोस्तस्य गृह्णीयात् पादतो जलम् | शतधारेण मन्त्रेण पञ्चाक्षरयुतेन च || १० || धृत्वा शिरसि पादाम्बु महत्फलमवाप्नुयात् | ऋतं सत्यमिति प्राश्य चाऽनन्तफलमश्नुते || ११ || अकालमृत्युमथनं सर्वव्याधिविनाशनम् | सर्वपापोपशमनं शम्भोः पादोदकं शुभम् || १२ || मङ्गलं मङ्गलानां च सर्वपावनपावनम् | दुष्टग्रहोपशमनम् इष्टसिद्धिप्रदायकम् || १३ || प्. ४६) सर्वदुःखप्रशमनं सर्वोपद्रवनाशनम् | सर्वसिद्धिप्रदं सद्यः सर्वेषां मुक्तिदायकम् || १४ || एकमूर्तेस्त्रयो भागा गुरुर्लिङ्गं च जङ्गमः | तदेवंगुणकं ग्राह्यं गुरुजङ्गमयोरपि || १५ || पादोदकमहिमा शोषणं पापपङ्कस्य दीपनं ज्ञानतेजसः | गुरोः पादोदकं चित्रं संसारद्रुमनाशनम् || १६ || सर्वतीर्थाभिषेके या शुद्धिर्मनसि जायते | गुरोरङ्घ्रिस्पर्शजले शिरसा धारिते हि सा || १७ || सप्तसागरपर्यन्तं तीर्थस्नानफलं सदा | गुरोरङ्घ्रिपयोबिन्दुसहस्रांशं न पूरयेत् || १८ || चरपादोदमहिमा वर्णितुं केन शक्यते | तद्धि मोचयितुं सद्यः शक्नुते यच्चराचरम् || ११ || प्.४७) ५. प्रसादस्वरूपं माहात्म्यं च अथ वक्ष्ये प्रसादस्य रूपं तद्वैभवं शृणु | गुरुलिङ्गजङ्गमानां भुक्तशेषः प्रसादकः || २० || त्रिविधः प्रसादः शुद्धसिद्धप्रसिद्धाख्यः स हि मुक्त्येकसाधनः | द्वयोस्त्रयाणां वा लाभे ग्राह्योऽयं पादतीर्थवत् || २१ || शिवेन भुक्तं भुञ्जीयात् तत्पीतं हि जलं पिबेत् | शिवाघ्रातं सदा जिघ्रेदेष धर्मः सनातनः || २२ || शिवार्पितस्यैव प्रसादस्य परिग्राह्यत्वम् भुञ्जते ये तु सम्मूढास्त्र्यम्बकायासमर्पितम् | ते भुञ्जते क्रिमीनेनांस्यधो गच्छन्ति शाश्वतम् || २३ || प्. ४८) पत्रं पुष्पं फलं तोयमन्नपानाद्यमौषधम् | असमर्प्य न भुञ्जीत भगवन्तं सदाशिवम् || २४ || शब्दस्पर्शरूपरसगन्धतन्मात्रपञ्चकम् | असमर्प्य न भुञ्जीत भगवन्तमुमापतिम् || २५ || यदिन्द्रियागतं किञ्चिद् यत्सुखं तच्छिवार्पितम् | तत्प्रसादं च भोक्तव्यं तदिन्द्रियमुखेन च || २६ || संयोगेषु वियोगेषु चाणुमात्रसुखानि च | इष्टलिङ्गे समर्प्यैव भुञ्जीयात् तानि सन्ततम् || २७ || समर्पणं द्विधा प्रोक्तं स्थूलसूक्ष्मविभेदतः | यच्छब्दाद्यविभागेनैवेष्टलिङ्गे समर्प्यते || द्रव्यं तत्स्थूलमित्युक्तमर्चाङ्गं तत्प्रकीर्तितम् || २८ || शब्दादिविषया यत्र भावेनैव न चान्यथा | समर्प्यते रूपमेव तद्धि स्थूलं (सूक्ष्मं) प्रकीर्तितम् || २९ || अर्चाङ्गं स्थूलमित्युक्तं सूक्ष्मं स्यादौपभोगिकम् | पदार्थभोगावसरे शब्दादीनां विभागतः || समर्पणं हि तत्सूक्ष्ममिदं स्यात् सार्वकालिकम् || ३० || प्. ४९) यदा येनेन्द्रियेणैव विषयो ह्युपभुज्यते | तदिन्द्रियगते लिङ्गे ह्यर्पणं सूक्ष्ममीरितम् || ३१ || समर्पणविशेषं ये भक्ताः सम्यग् विजानते | शम्भोः प्रसादमतुलमश्रमं विन्दते हि ते || ३२ || प्रसादलक्षणं महिमा च समर्पितः प्रसादैककारणत्वान्महेशितुः | प्रसादत्वेन विख्यातः परमानन्ददायकः || ३३ || ऋतं सत्यं परं ब्रह्मामृतमित्यपि गीयते | प्रसादस्तस्य महिमा केन वा वर्ण्यते कथम् || ३४ || गुरूच्छिष्टं पुरोडाशं चरस्यापि विशेषतः | चरगुर्वोः प्रसादस्तु ध्रुवं पावित्र्यदायकः || ३५ || प्रसादमहिमाऽचिन्त्यः प्रोक्तो देवगुरो तव | गोपनीयः प्रयत्नेन किमन्यच्छ्रोतुमिच्छसि || ३६ || इति श्रीचन्द्रज्ञानागमे उत्तरभागेऽनन्तरुद्रबृहस्पतिसंवादे शिवशासने क्रियापादे पादोदकप्रसादस्वरूपनिरूपणं नाम पञ्चमः पटलः || ५ || षष्ठः पटलः बृहस्पतिरुवाच अप्रमेयप्रभावाढ्य जगदीश नमोऽस्तु ते | श्रुत्वा प्रसादभूमानं कृतकृत्योऽस्मि साम्प्रतम् || १ || षष्ठस्य भस्मनश्चापि यन्माहात्म्यमनुत्तमम् | तदप्यावेद्य कृपया धन्यं संपादयाद्य माम् || २ || अनन्तरुद्र उवाच ब्रह्मन्नावेदयिष्यामि भस्मसंपादनं तथा | धारणं वैभवं चापि सावधानमनाः शृणु || ३ || ६. भस्माख्यं षष्ठमावरणम् विद्याशक्तिः समस्तानां शक्तिरित्यभिधीयते | गुणत्रयाश्रया विद्या सा विद्या च तदाश्रया || ४४ || गो - गोमय - गोमूत्रस्वरूपनिरूपणम् गुणत्रयमिदं धेनुर्विद्याऽभूद्गोमयं शुभम् | मूत्रं चोपनिषत् प्रोक्तं कुर्याद्भस्म ततः परम् || ५ || भस्मसम्पादनविधिः पञ्चाक्षरेण मन्त्रेण धेनुं तत्राभिमन्त्रयेत् | अष्टोत्तरशतेनाथ प्राशयेत् तु जलं तृणम् || ६ || प्. ५२) उपोष्य च चतुर्दश्यां शुक्ले कृष्णेऽथवा व्रती | परेद्युः प्रातरुत्थाय शुचिर्भूत्वा समाहितः || ७ || कृतस्नानो धौतवस्त्रः पयोऽर्थं विसृजेच्च गाम् | उत्थाप्य गां प्रयत्नेन गायत्र्या मूत्रमाहरेत् || ८ || सौवर्णे राजते ताम्रे धारयेन्मृण्मये घटे | पौष्करेऽथ पलाशे वा पात्रे गोशृङ्ग एव वा || ९ || आददीत हि गोमूत्रं मूलमन्त्रेण गोमयम् | अभूमिपातं गृह्णीयात् पात्रे पूर्वोदिते गृहे || १० || गोमयं शोधयेद् विद्वान् मूलमन्त्राष्टकेन च | दशजप्तेन मन्त्रेण गोमूत्रं शोधयेत् तथा || ११ || भवाय नममन्त्रेण गोमूत्रं गोमये क्षिपेत् | शर्वाय नम इत्येवं पिण्डानां च चतुर्दश || १२ || कुर्यात् संशोष्य किरणैः सप्तमूलेन चाहरेत् | विदध्यादथ पूर्वोक्तपात्रे गोमयपिण्डकान् || १३ || प्. ५३) आहुतिविधानम् शैवागमोक्तविधिना प्रतिष्ठाप्याग्निमर्चयेत् | पिण्डांश्च निक्षिपेत् तत्र चाद्यन्तप्रणवेन तु || १४ || षडक्षरस्य मन्त्रस्य व्यावृत्तस्य तथाऽक्षरैः | स्वाहान्तैर्जुहुयात् तत्र वर्णैर्गोमयपिण्डकान् || १५ || मूलेनैवाज्यभागौ च प्रक्षिपेदेव संयतः | ततो निधनपतये त्रयोविंशं जुहोति च || होतव्याः पञ्चब्रह्माख्या नमो देवाय शम्भवे || १६ || इति सर्वाहुतीर्हुत्वा चतुर्थ्यन्तैश्च मन्त्रकैः | भवः शर्वो मृडो रुद्रो हरः शम्भुर्महेश्वरः || १७ || एतैश्च जुहुयाद् विद्वान् मूलमन्त्राष्टकं तथा | शिवाय त्रयहोमश्च स्विष्टकृन्मूलमन्त्रतः || १८ || प्. ५४) इत्थं शेषं तु निर्वर्त्य पूर्णपात्रोदकं तथा | अष्टोत्तरशतेनाथ तर्पयेच्छुद्धमानसः || १९ || पुलकाहरणम् पञ्चब्रह्मेण मन्त्रेण तज्जलं शिरसि क्षिपेत् | दशवारं तु जप्तेन दिक्षु तोयं विनिक्षिपेत् || शैवानां दक्षिणां दत्वा शान्त्यै पुलकमाहरेत् || २० || शैवानामाहरिष्यामि सर्वेषां कर्मगुप्तये | जातवेदसमेनं त्वां पुलकैश्छादयाम्यहम् || २१ || मन्त्रेणानेन तं वह्निं पुलकैश्छादयेत् ततः | त्रिदिनं ज्वलनस्थित्यै छादनं पुलकं स्मृतम् || ब्राह्मणान् भोजयेद् भक्त्या स्वयं भुञ्जीत वाग्यतः || २२ || दिनत्रयेण यदि वा प्रथमे दिवसेऽथवा | द्वितीये वा तृतीये वा प्रातः स्नात्वा सिताम्बरः || २३ || शुक्लभास्वद्यज्ञसूत्रः शुद्धभस्मानुलेपनः | मूलमन्त्रं समुच्चार्य पुलकं भस्म सन्त्यजेत् || २४ || प्. ५५) ततश्चावाहनमुखानुपचारांस्तु षोडश | कृत्वाऽहृत्य तथा शैवं ततोऽग्निमुपसंहरेत् || २५ || सद्यादिमन्त्रेण भस्मशुद्धीकरणम् सद्यादिकेन मन्त्रेण गृह्णीयाद् भस्म चोत्तमम् | तदनन्तरमन्त्रेण प्रमृज्य च ततः परम् || संयोज्य गन्धसलिलैः कपिलामूत्रकेण वा || २६ || चन्द्रकुङ्कुमकस्तूरीमुशीरं चन्दनं तथा | अगरुद्वितयं चैव चूर्णयित्वा तु सूक्ष्मतः || २७ || प्रणवेनाहरेद् विद्वान् बृहतो वटकानथ | अघोरमन्त्रतश्चाथ दशजप्तेन मूलतः || २८ || भस्मसम्पादनस्य विधानान्तरम् विधान्तरं प्रवक्ष्यामि भस्मसंपादनं लघु | सद्येन गोशकृद् ग्राह्यं वामेन त्वभिमन्त्रयेत् || २९ || अघोरेण दहेत् पिण्डं ग्राह्यं तत्पुरुषेण तु | नित्यमीशानमन्त्रेण स्वाङ्गे धार्यं प्रयत्नतः || ३० || प्. ५६) भस्मत्रैविध्यम् शान्तिकं पौष्टिकं भस्म कामदं च त्रिधा भवेत् | गोमयं योनिसम्बद्धं यद्धस्तेनैव गृह्यते || ब्रह्ममन्त्रैश्च संदग्धं तच्छान्तिकमिहोच्यते || ३१ || सावधानेन गोयोनिनिस्सृतं गोमयं तु यत् | अन्तरिक्षे गृहीत्वा तं षडङ्गेन दहेत् ततः || पौष्टिकं तु समाख्यातं कामदं तु ततः शृणु || ३२ || सुशुद्धे भूतले दैवात् पतितं गोमयं तु यत् | प्रसादेन दहेदेवमेतत् कामदमुच्यते || ३३ || भस्मधारणम् शिवाग्निजनितं भस्म शस्तं स्याच्छिवयोगिनाम् | विरजानलजं चैव धार्यं भस्म महामुनेः || ३४ || औपासनसमुत्पन्नं गृहस्थानां विशिष्यते | समिदग्निसमुत्पन्नं शस्तं वै ब्रह्मचारिणाम् || ३५ || त्रैवर्णिकानां सर्वषामग्निहोत्रसमुद्भवम् | शूद्राणां श्रोत्रियागारपचनाग्निसमुद्भवम् || अन्येषामपि सर्वेषां धार्यं दावानलोद्भवम् || ३६ || प्. ५७) भस्मस्नानोद्धूलनविधिः भस्मस्नानविधिं वक्ष्याम्यशेषाघौघनाशनम् | भस्ममुष्टिं समादाय संहितामन्त्रमन्त्रितम् || मस्तकात् पादपर्यन्तं भस्मस्नानं समाचरेत् || ३७ || ईशेन पञ्चधा भस्म विकिरेन्मूर्ध्नि यत्नतः | मुखे चतुस्तत्पुरुषेणाघोरेणाष्टधा हृदि || ३८ || वामेन गुह्यदेशे तु त्रिदशधा ततः पुनः | अष्टधा सद्यमन्त्रेण पादमुद्धूल्य यत्नतः || सर्वाङ्गोद्धूलनं कुर्यात् पञ्चभिर्ब्रह्मभिः पुनः || ३९ || त्रिविधं भस्मधारणम् उद्धूलनं ततश्चैवमवगुण्ठनमेव च | त्रिपुण्ड्रं चेति विख्यातं त्रिविधं भस्मधारणम् || ४० || प्. ५८) पञ्चभिर्ब्रह्मभिर्वाऽपि मूलमन्त्रेण वा पुनः | सम्मन्त्र्य निर्जलं भस्म तेन लिम्पेत् सुसंयतः || सर्वाङ्गमापादशिखमुद्धूलनमिदं स्मृतम् || ४१ || भस्मना मन्त्रितेनैव सजलेनानुलेपनम् | अवगुण्ठनमाख्यातं त्रिपुण्ड्रमथ कथ्यते || ४२ || त्रिपुण्ड्रधारणद्वात्रिंशत्स्थानानि त्रिपुण्ड्रं कारयेद्धीमान् ब्रह्मविष्णुशिवात्मकम् | मध्याङ्गुलिभिरादाय त्रिसृभिर्मूलमन्त्रितम् || ४३ || द्वात्रिंशत्स्थानके वाथ षोडशस्थानकेऽथवा | अष्टस्थाने तथा चैवं पञ्चस्थाने च योजयेत् || ४४ || उत्तमाङ्गे ललाटे च कर्णयोर्नेत्रयोर्द्वयोः | नासावक्त्रगलेष्वेवमंसद्वयम् अनन्तरम् || ४५ || कूर्परे मणिबन्धे च हृदये पार्श्वयोर्द्वयोः | नाभौ गुह्यद्वये चैव ऊर्वोः स्फिग्बिम्बजानुषु || जङ्घाद्वये पादयोश्च द्वात्रिंशत् स्थानमुत्तमम् || ४६ || अष्टमूर्त्र्यष्टविद्येशदिक्पालवसवोऽधिपाः | एतेषां नाममात्रेण त्रिपुण्ड्रं धारयेद् बुधः || ४७ || प्. ५९) षोडशस्थानानि विदध्यात् षोडशस्थाने त्रिपुण्ड्रं च समाहितः | शीर्षके च ललाटे च कर्णे चांसद्वयेऽपि च || ४८ || कूर्परे मणिबन्धे च हृदये नाभिपार्श्वयोः | पृष्ठे चैवं प्रतिष्ठायां जपेत् तत्राधिदैवतम् || ४९ || शिवं शक्तिं च सादाख्यमीशं रुद्राख्यमेव च | नासत्यो दस्रकश्चैवमश्विनौ द्वौ समीरितौ || वामादिनवशक्तीश्च एताः षोडश देवताः || ५० || अथवा मूर्ध्नि वक्त्रे च कर्णयोर्घ्राणके तथा | बाहुद्वये च हृदये नाभ्यामूर्वोर्युगे तथा || जानुद्वये च पदयोः पृष्ठभागे च षोडश || ५१ || शिवः स्कन्दश्च चन्द्रार्कौ विघ्नेशो विष्णुरेव च | श्रीश्चैव हृदये तद्वत् तथा नाभौ प्रजापतिः || ५२ || प्. ६०) नागाश्च नागकन्याश्च ऋषयो ऋषिकन्यकाः | पादयोस्तु समुद्राश्च तीर्थं पृष्ठेऽपि च स्मृताः || ५३ || अष्टस्थानानि एवं वा षोडशस्थानमष्टस्थानमथोच्यते | शिरः स्थानं ललाटं च कर्णद्वयमनन्तरम् || ५४ || अंसयुग्मं च हृदयं नाभिरित्यष्टमं भवेत् | ब्रह्मा च ऋषयः सप्त देवताश्च प्रकीर्तिताः || ५५ || अथवा निटिलं बाहू हृदयं नाभिरेव च | भस्मस्थानानि कथ्यन्ते पञ्चब्रह्माणि देवताः || ५६ || यथा संभवमाकुर्याद् देशकालाद्यपेक्षया | उद्धूलनेऽप्यशक्तश्चेत् त्रिपुण्ड्रादीनि कारयेत् || ५७ || त्रिपुण्ड्रधारणविधिः ऊर्ध्वपुण्ड्रं भवेत् साम मध्यपुण्ड्रं यजूंषि च | अधःपुण्ड्रमृचः साक्षात् तस्मात् पुण्ड्रं त्रियायुषम् || ५८ || प्. ६१) अग्निरित्यादिभिर्मन्त्रैर्जाबालोपनिषद्गतैः | सर्वैरुद्धूलनं कार्यं भस्मना सजलेन च || ५९ || त्रियायुषेण मन्त्रेण बुधैस्तिर्यक्त्रिपुण्ड्रकम् | धार्यं सदा द्विजश्रेष्ठैर्धार्मिकैर्वैदपारगैः || ६० || मेधावीत्यादिना वाऽपि ब्रह्मचारी दिने दिने | भस्मना सजलेनैव धारयेच्च त्रिपुण्ड्रकम् || ६१ || त्रियम्बकेन मन्त्रेण प्रणवेन शिवेन च | गृहस्थश्च वनस्थश्च धारयेच्च त्रिपुण्ड्रकम् || ६२ || ओंकारेण त्रिरुक्तेन सहंसेन त्रिपुण्ड्रकम् | धारयेद् भिक्षुको नित्यमित्येतच्छिवशासनम् || ६३ || भस्ममहिमा भस्म ज्योतिः समाम्नातमवश्यं तस्य धारणात् | संसारसागरं तीर्त्वा कैवल्यफलमश्नुते || ६४ || भस्मसंधारणादेव सर्वतीर्थफलं भवेत् | भस्मसंधारणात् सर्वं भस्मीभवति किल्बिषम् || ६५ || भस्मेदं शाम्भवं ज्योतिस्तद्ध्यानाद् ध्यात ईश्वरः | भस्मसंदर्शनादेव शिवदर्शनमश्नुते || ६६ || प्. ६२) भूतप्रेतपिशाचाश्च महारोगाश्च दुस्सहाः | भस्मदर्शनमात्रेण पलायन्ते न संशयः || ६७ || भूतविद्रावणे पापसंहृतौ मुक्तिसाधने | न भस्मनोऽन्यत् सदृशमित्येतच्छिवशासनम् || ६८ || भस्मनो महिमाऽगण्यस्तं वक्तुं केन शक्यते | तथापि कश्चिद् गदितः किमन्यच्छ्रोतुमिच्छसि || ६९ || इति श्रीचन्द्रज्ञानागमे उत्तरभागेऽनन्तरुद्रबृहस्पतिसंवादे शिवशासने क्रियापादे भस्मस्वरूपनिरूपणं नाम षष्ठः पटलः || ६ || सप्तमः पटलः बृहस्पतिरुवाच अपारमहिमाधार करुणाभरणोज्ज्वल | धन्योऽस्मि भस्मनोऽचिन्त्यमहिम्नः परिवेदनात् || १ || रुद्राक्ष महिमानं च विबोध्य कृपया विभो | शिष्यं मामनुगृह्णीष्व सुरासुरनमस्कृत || २ || अनन्तरुद्र उवाच रुद्राक्षस्वरूपं महिमा च गीष्पते ते प्रवक्ष्यामि रुद्राक्षाणां यथोदयम् | धारणं महिमानं च शृणुष्वैकाग्रमानसः || ३ || रुद्राक्षोत्पत्तिः त्रिपुराणां वधार्थाय विभुना शम्भुना पुरा | उन्मीलितानि चक्षूंषि दिव्यं वर्षसहस्रकम् || ४ || उभाभ्यां चारुपक्ष्मभ्यां पतिता जलबिन्दवः | त एव बिन्दवो जाता महारुद्राक्षवृक्षकाः || स्थावरत्वम् अनुप्रापुर्भक्तानुग्रहकारणात् || ५ || प्. ६४) रुद्राक्षमहिमा श्रोत्रियाय सवत्साया धेनोर्दानेन यत्फलम् | तत्फलं लक्षगुणितं दर्शनाल्लभते नरः || ६ || पुनस्तु कोटिगुणितं फलं तत्स्पर्शनाद् भवेत् | तस्य कोटिशतं पुण्यं लभते धारणान्नरः || ७ || लक्षकोटिसहस्राणि लक्षकोटिशतानि च | तज्जपाल्लभते पुण्यं रुद्राक्षैर्भक्तिमान्नरः || ८ || रुद्राक्षभेदाः रुद्राक्षाणां तु सद्भक्त्या धारणे स्यान्महाफलम् | धात्रीफलप्रमाणं तु श्रेष्ठमेतदुदाहृतम् || ९ || बदरीफलमात्रं तु मध्यमं प्रोच्यते बुधैः | अधमं चणमात्रं स्यादिति विद्धि बृहस्पते || १० || ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चेति शिवाज्ञया | वृक्षा जाताः पृथिव्यां तु तज्जातीयाः शुभाक्षकाः || ११ || श्वेतास्तु ब्राह्मणा ज्ञेयाः क्षत्रिया रक्तवर्णकाः | पीता वैश्यास्तु विज्ञेयाः कृष्णाः शूद्रा उदाहृताः || १२ || प्. ६५) ब्राह्मणो बिभृयाच्छ्वेतान् रक्तान् राजा तु धारयेत् | पीतान् वैश्यस्तु बिभृयात् कृष्णान् शूद्रस्तु धारयेत् || १३ || वर्ज्या रुद्राक्षाः ताम्राः स्निग्धा दृढाः स्थूलाः कण्टकैः संयुताः शुभाः | क्रिमिदष्टं छिन्नभिन्नं कण्टकैर्हीनमेव च || व्रणयुक्तमवृत्तं च षड्रुद्राक्षान् विवर्जयेत् || १४ || उत्तमादिभेदाः स्वयमेव कृतद्वारं रुद्राक्षं स्यादिहोत्तमम् | यत्तु पौरुषयत्नेन कृतं तन्मध्यमं भवेत् || १५ || समान् स्निग्धान् दृढान् वृत्तान् क्षौमसूत्रेण धारयेत् | सर्वगात्रेण साम्येन सामान्यानि विचक्षणः || १६ || निकषे हेमरेखेव यस्य रेखा प्रदृश्यते | तदक्षमुत्तमं विद्यात् तद्धार्यं शिवपूजकैः || १७ || रुद्राक्षधारणस्थलानि संख्या च शिखायामेकरुद्राक्षं त्रिंशत्तु शिरसा वहेत् | द्वात्रिंशत् तु गले दद्याद् बाह्वोः षोडश षोडश ||१८ || प्. ६६) द्वादशं मणिबन्धे च स्कन्धे पञ्चशतं वहेत् | अष्टोत्तरशतैर्मालां जपयज्ञे प्रकल्पयेत् || १९ || द्विसरं त्रिसरं वाऽपि सराणां पञ्चकं तु वा | सराणां सप्तकं वाऽपि बिभृयात् कण्ठदेशतः || २० || मकुटे कुण्डले चैव कर्णिकाहारकेषु च | केयूरे कटके चैव कुक्षिबन्धे विशेषतः || सुप्ते पीते सदा कालं रुद्राक्षान् धारयेन्नरः || २१ || त्रिशतं त्वधमं पञ्चशतं मध्यममुच्यते | सहस्रमुत्तमं प्रोक्तमेवं भेदेन धारयेत् || २२ || मन्त्रपुरस्सरं रुद्राक्षधारणम् शिरसीशानमन्त्रेण कण्ठे तत्पुरुषेण च | अघोराख्येन मन्त्रेण करयोर्धारयेत् सुधीः || पञ्चाशदक्षसहितां व्योमव्यापीति चोदरे || २३ || प्. ६७) पञ्चब्रह्मभिरङ्गैश्च त्रिमाला पञ्च सप्त च | अथवा मूलमन्त्रेण सर्वाण्यक्षाणि धारयेत् || २४ || मुखभेदेन रुद्राक्षमहिमा एकवक्त्रं तु रुद्राक्षं परतत्त्वस्वरूपकम् | तद्धारणात् परे तत्त्वे लीयते विजितेन्द्रियः || २५ || द्विवक्त्रं चैव रुद्राक्षमर्धनारीश्वरात्मकम् | धारणादर्धनारीशः प्रीयते तस्य नित्यशः || २६ || त्रिवक्त्रमनलः साक्षात् स्त्रीहत्यां दहति क्षणात् | त्रिमुखं चैव रुद्राक्षमग्नित्रयमुदाहृतम् || तद्धारणेन हुतभुक् तुष्यति स्फुटकामदः || २७ || चतुर्मुखं तु रुद्राक्षं ब्रह्मरूपमुदाहृतम् | पञ्चवक्त्रं तु रुद्राक्षं पञ्चब्रह्मस्वरूपकम् || २८ || पञ्चवक्त्रं स्वयं ब्रह्म ब्रह्महत्यां व्यपोहति | तस्य धारणमात्रेण संतुष्यति सदाशिवः || २९ || षड्वक्त्रं तु रुद्राक्षं कार्तिकेयाधिदैवतम् | विनायकाधिदैवं च दत्तेऽविघ्नं श्रियं वराम् || ३० || प्. ६८) सप्तवक्त्रं तु रुद्राक्षं सप्तमात्रधिदैवतम् | तद्धारणेन सुप्रीता जयं ददति मातरः || ३१ || अष्टवक्त्रं तु रुद्राक्षं दिगधीशाधिदैवतम् | वस्वष्टकप्रियं चैव गङ्गाप्रीतिकरं शुभम् || तद्धारणादिमे प्रीता ददते तस्य वाञ्छितम् || ३२ || नववक्त्रं तु रुद्राक्षं नवशक्त्यधिदैवतम् | तस्य धारणमात्रेण प्रीयन्ते नवशक्तयः || ३३ || दशवक्त्रं तु रुद्राक्षं यमदैवमुदाहृतम् | तथाऽस्य प्रीतिजनकं धारणे नात्र संशयः || ३४ || एकादशमुखं चाक्षं रुद्रैकादशदैवतम् | तदिन्द्रदैवतं प्रोक्तं सदा सौभाग्यवर्धनम् || ३५ || रुद्राक्षं द्वादशमुखं महाविष्णुस्वरूपकम् | द्वादशादित्यदैवं च देवताप्रीतिवर्धनम् || ३६ || त्रयोदशमुखं चाक्षं कामदं शुद्धिदं शुभम् | तस्य धारणमात्रेण कामदेवः प्रसीदति || ३७ || प्. ६९) चतुर्दशमुखं चाक्षं रुद्रनेत्रसमुद्भवम् | सर्वव्याधिहरं चैव सदारोग्यमवाप्नुयात् || ३८ || तन्मुखं रुद्रमित्याहुस्तद्बिन्दुः सर्वदेवताः | रुद्राक्षधारणात् सद्यः सर्वपापैः प्रमुच्यते || ३९ || संख्यानिरूपणम् रुद्राक्षधारणं पुण्यं केन वा सदृशं भवेत् | सहस्रं धारयेद् यस्तु रुद्राक्षाणां धृतव्रतः || सुरासुरा नमन्त्येनं यथा रुद्रस्तथैव सः || ४० || अभावे तु सहस्रस्य बाह्वोः षोडश षोडश | एकं शिखायां करयोर्द्वादश द्वादश द्वयोः || ४१ || द्वात्रिंशत् कण्ठदेशे तु प्रत्येकं कर्णयोश्च षट् | उरस्यष्टोत्तरशतं चत्वारिंशच्च मस्तके || धारयेद् यस्तु रुद्राक्षं रुद्रवत् पूज्यते सदा || ४२ || मुक्तादिना सह रुद्राक्षधारणम् मुक्ताप्रवालस्फटिकरौप्यवैडूर्यकाञ्चनैः | धारयेद् यस्तु रुद्राक्षान् स रुद्रो नात्र संशयः || ४३ || केवलं वाऽपि रुद्राक्षान् रुद्रमुद्रान् बिभर्ति यः | तं न स्पृशन्ति पापानि तमांसीव विभावसुम् || ४४ || प्. ७०) रुद्राक्षमहिमा रुद्राक्षमालया जप्तो मन्त्रोऽनन्तफलप्रदः | अरुद्राक्षजपः पुंसां तावन्मात्रफलप्रदः || ४५ || यस्याङ्गे नास्ति रुद्राक्ष एकोऽपि बहुपुण्यदः || तस्य जन्म निरर्थं स्यात् त्रिपुण्ड्ररहितं यथा || ४६ || मूर्ध्नि विन्यस्य रुद्राक्षं यः स्नाति मतिमान्नरः | गङ्गास्नानफलं तस्य जायते नात्र संशयः || ४७ || पूजयेद्यस्तु रुद्राक्षं कृत्वा तोयाभिषेचनम् | यत्फलं लिङ्गपूजायां तदेवाप्नोति निश्चितम् || ४८ || रुद्राक्षमहिमाऽपारः कश्चिदुक्तो मयाऽनघ | गोपनीयः प्रयत्नेन किमतः श्रोतुमिच्छसि || ४९ || इति श्रीचन्द्रज्ञानागमे उत्तरभागेऽनन्तरुद्रबृहस्पतिसंवादे शिवशासने क्रियापादे रुद्राक्षस्वरूपनिरूपणं नाम सप्तमः पटलः || ७ || अष्टमः पटलः बृहस्पतिरुवाच अनुत्तरज्ञाननिधे परानन्दसुधाम्बुधे | श्रीमदीयमुखाम्भोजान्मकरन्दमिव सृतम् || १ || महिमानमिहाकर्ण्य रुद्राक्षाणामनुत्तमम् | संतृप्तो विवशश्चास्मि धन्योऽस्मि सुरसन्नुत || २ || श्रीमत्पञ्चाक्षरस्यापि विधानं महिमोन्नतिम् | उपदिश्य कृपादृष्ट्या विलोक्यानुगृहाण माम् || ३ || अनन्तरुद्र उवाच अधुना ते प्रवक्ष्यामि पञ्चाक्षरमहामनोः | स्वरूपं महिमानं च पुरश्चर्याविधिं क्रमात् || ४ || पञ्चाक्षरमन्त्रस्वरूपं महिमा च आदौ नमः प्रयोक्तव्यं शिवायेति ततः परम् | सैषा पञ्चाक्षरी विद्या सर्वश्रुतिशिवागता || ५ || शब्दजातस्य सर्वस्य बीजभूता समासतः | आदौ शिवमुखोद्गीर्णा सा तस्यैवात्मवाचिका || ६ || प्. ७२) तप्तचामीकरप्रख्या पीनोन्नतपयोधरा | चतुर्भुजा त्रिनयना बालेन्दुकृतशेखरा || ७ || पद्मोत्पलधरा सौम्या वरदाऽभयपाणिका | सर्वलक्षणसंपन्ना सर्वाभरणभूषिता || ८ || सिद्धपद्मासनासीना नीलकुञ्चितमूर्धजा | इयं प्रणवपूर्वा तु षडक्षरीति कथ्यते || ९ || षडक्षरी विद्या द्विजैरियं तु जप्तव्या नित्यं प्रणवपूर्विका | स्त्रीभिः शूद्रैश्च जप्तव्या नमोऽन्ता प्रणवं विना || १० || ऋष्यादिन्यासः वामदेव ऋषिश्चास्य पङ्क्तिश्छन्द उदाहृतः | देवता स शिवः साक्षात् प्रणवो बीज उच्यते || उमा शक्तिरिति प्रोक्ता न्यासश्चैवं षडक्षरैः || ११ || जपविधानम् ध्यात्वा संपूज्य मनसि बाह्ये वा परमेश्वरम् | जपं कुर्यात् प्रयत्नेन ध्यायन् साम्बं त्रियम्बकम् || १२ || प्. ७३) सहस्रं वा तदर्धं वा शतं वाऽथ जपेन्मनुम् | एवं यः कुरुते नित्यं स शिवो हि न संशयः || १३ || वर्णादिनिरूपणम् अस्याः पञ्चविधा वर्णाः प्रस्फुरद्रस्मिमण्डलाः | पीतः श्वेतस्तथा रक्तो हरितो नील एव च || १४ || पृथक् प्रोज्या यद्येते बिन्दुनादविभूषिताः | अर्धचन्द्राकृतिर्बिन्दुर्नादो दीपशिखाकृतिः || १५ || पञ्चब्रह्ममुखान्याहुः स्थानं तेषां सुरोत्तम | पूर्वादि चोर्ध्वपर्यन्तं नकारादि यथा क्रमम् || १६ || नामान्तराणि मूलं विद्या शिवं चैव सूत्रं पञ्चाक्षरस्तथा | नामान्यस्य विजानीयादोङ्कारो हृदयं मतम् || १७ || मन्त्राङ्गानि नकारः शिर उच्येत मकारस्तु शिखोच्यते | शिकारः कवचं तद्वद्वाकारो नेत्रमुच्यते || १८ || यकारोऽस्त्रं नमः स्वाहा वषट् हुं वौषडित्यपि | फडित्यपि च वर्णानां मन्त्राङ्गत्वं यथा तथा || १९ || प्. ७४ वर्णं दैवं तथा शक्तिराधारं छन्द एव च | ऋषिः स्थानं ब्रह्म चाथ आयुधं तु तथैव च || २० || कला गुणश्च चक्रं च प्रकाशः करणं तथा | वायुर्ज्ञानेन्द्रियं चैवं षोडशैते क्रमोदिताः || २१ || नकारस्य षोडशरूपता नकारं पीतवर्णं स्याद् ब्रह्मा तत्राधिदैवतम् | सावित्री शक्तिरित्युक्ता चाधारं पृथिवी तथा || २२ || अनुष्टुप्छन्दसा युक्तं वासिष्ठार्सं तथैव हि | स्थानं पञ्चिमतो वक्त्रं सद्योजातं तु ब्रह्मकम् || २३ || आयुधं वज्रमेवोक्तं कला निवृत्तिरेव च | गुणः कठिन एवोक्तःश्चक्रं तु चतुरश्रकम् || २४ || ज्वलदग्नेः प्रकाशस्तु करणं मन एव च | प्राणवायुसमायुक्तं घ्राणं ज्ञानेन्द्रियं भवेत् || इत्येवं षोडशानां तु नकाराक्षरमुच्यते || २५ || मकारस्य षोडशरूपता मकारं जलरूपं च दैवं विष्णुस्तथैव च | लक्ष्मीः शक्तिरिति प्रोक्ता चाधारं जलमेव च || २६ || त्रिष्टुप्छन्दः समायुक्तं विश्वामित्र ऋषिस्तथा | स्थानमुत्तरतो वक्त्रं ब्रह्म वै वामदेवकम् || २७ || प्. ७५) आयुधं पद्ममेवोक्तं प्रतिष्ठाख्यकलायुतम् | गुणस्तु द्रवसंयुक्तश्चक्रमर्धसुधाकरः || २८ || सोमस्यैव प्रकाशश्च करणं बुद्धिरेव च | अपानवायुसंयुक्तं जिह्वा ज्ञानेन्द्रियं भवेत् || इत्येवं षोडशानां तु मकाराक्षरमुच्यते || २९ || शिकारस्य षोडशरूपता शिकारं वह्निरूपं तु रुद्रस्तत्राधिदैवतम् | गौरीशक्ति समायुक्तमाधारं चाग्निरेव च || ३० || उष्णिक्छन्द समायुक्तं जमदग्निर्-ऋषिस्तथा | स्थानं दक्षिणतो वक्त्रमघोरं ब्रह्म चैव हि || ३१ || स्वस्तिकायुधमेवोक्तं विद्यानाम कलाऽपि च | गुणो दीप्त्यनुसंयुक्तश्चक्रं त्यश्रकमेव च || ३२ || तटितां तु प्रकाशश्च करणं त्वहमाकृतिः | व्यानवायुसमायुक्तं नेत्रं ज्ञानेन्द्रियं भवेत् || इत्येवं षोडशानां तु शिकाराक्षरमुच्यते || ३३ || वाकारस्य षोडशरूपता वाकारं वायुरूपं स्यादधिदैवतमीश्वरम् | अम्बिका स्यान्महाशक्तिर्वायुश्चाधारमेव च || ३४ || प्. ७६) बृहतीच्छन्दसा युक्तं ऋषिः काश्यप एव च | स्थानं पूर्वाननं प्रोक्तं ब्रह्म तत्पूरुषं भवेत् || ३५ || आयुधं बिन्दुरूपं तु कला शान्तिस्तथैव च | गुणः स्परश इति प्रोक्तं षडश्रं चक्रमेव च || ३६ || प्रकाश इन्द्रनीलस्य चित्तं तु करणं भवेत् | उदानवायुसंयुक्तं चर्म ज्ञानेन्द्रियं भवेत् || इत्येवं षोडशानां तु वाकाराक्षरमुच्यते || ३७ || यकारस्य षोडशरूपता यकारं व्योमरूपं तु दैवं चैव सदाशिवः | उन्मनी शक्तिरेवोक्ता आधारं व्योम चोच्यते || ३८ || जगतीच्छन्दसा युक्तं भरद्वाज ऋषिस्तथा | स्थानमूर्ध्वमुखं विद्याद् ब्रह्म चेशानमेव च || ३९ || आयुधं चैव शूलं स्याच्छान्त्यतीता कलाऽपि च | गुणस्तु शून्य एव स्यात् प्रकाशश्चन्द्रिकामणेः || ४० || करणं प्रकृतिः प्रोक्तं समानो वायुरेव च | श्रोत्रं ज्ञानेन्द्रियं प्रोक्तमित्येते षोडश क्रमात् || यकाराक्षरमित्युक्तं न भूतो न भविष्यति || ४१ || प्. ७७) पञ्चाक्षरोत्पत्तिः एकमेव प्रधानं तु पञ्चाक्षरमिति स्मृतम् | काम्यसिद्धिप्रयोगेण प्रत्यक्षं पञ्चधा भवेत् || ४२ || ततः प्रस्तारकं प्रोक्तं विंशत्येकशतं भवेत् | एवं पञ्चाक्षरोत्पत्तिर्गुरोर्वक्त्रेण लभ्यते || ४३ || मन्त्रं पञ्चविधं प्रोक्तं कर्म चाष्टविधाम् | परे पञ्चात्तरोत्पत्तिः पुनस्तत्रैव लीयते || ४४ || सप्तकोटिमहामन्त्रा रूपवक्त्रैरनेकधा | पञ्चाक्षरे प्रलीयन्ते पुनस्तस्माद् विनिर्गताः || ४५ || आज्ञाहीनं क्रियाहीनं श्रद्धाहीनं बृहस्पते | अजप्तं दक्षिणाहीनं सदा जप्तं च निष्फलम् || ४६ || आज्ञासिद्धं क्रियासिद्धं श्रद्धासिद्धमिदं तथा | दक्षिणासिद्धमपि च मन्त्रमेतन्महाफलम् || ४७ || पुरश्चरणक्रमः दीक्षापूर्वं गुरोर्लब्ध्वा मन्त्रमाज्ञां समाहितः | संकल्प्य च जपेन्नित्यं पुरश्चरणपूर्वकम् || ४८ || यावज्जीवं जपेन्नित्यमष्टोत्तरसहस्रकम् | अनश्नंस्प्तपरो भूत्वा स याति परमां गतिम् || ४९ || प्. ७८) जपेदक्षरलक्षं वै चतुर्गुणितमादरात् | युक्ताशी संयमी यः स पौश्चरणिकः स्मृतः || ५० || यः पुरश्चरणं कृत्वा नित्यजापी भवेत् पुनः | तस्य नास्ति समोलोके स सिद्धः सिद्धिदो भवेत् || ५१ || मन्त्रजपविधिः स्नानं कृत्वा शुचौ देशे बद्ध्वा रुचिरमासनम् | शङ्करं हृदि संचिन्त्य स्वगुरुं तद्गुरूंस्तथा || ५२ || प्राङ्मुखोदङ्मुखो वापि मौनी चैकाग्रमानसः | विशोध्य पञ्चतत्त्वानि दहनप्लावनादिभिः || ५३ || मन्त्रन्यासादिकं कृत्वा सकलीकृतविग्रहः | देवं देवीयुतं ध्यायेत् प्राणापानौ नियम्य च || ५४ || प्. ७९) विद्यां स्थानं स्वरं रूपं ऋषिं छन्दोऽधिदैवतम् | बीजं शक्तिं तथा वाच्यं स्मृत्वा पञ्चाक्षरं जपेत् || ५५ || त्रिविधो जपः उत्तमो मानसः प्रोक्त उपांशुर्मध्यमस्तथा | अधमो वाचिकः प्रोक्त इत्येतच्छिवशासनम् || ५६ || यदुच्चनी च स्वरितैः शब्दैः स्पष्टपदाक्षरैः | मन्त्रमुच्चारयेद्वाचा वाचिकोऽयं जपः स्मृतः || ५७ || जिह्वामात्रपरिस्पन्दादीषदुच्चारितोऽपि वा | अपरैरश्रुतः स्वेन श्रुतश्चोपांशुरुच्यते || ५८ || धिया यदक्षरश्रेण्या वर्णाद्वर्णं पदात्पदम् | शब्दार्थचिन्तनं भूयः कथ्यते मानसो जपः || ५९ || वाचिकस्त्वेक एव स्यादुपांशुः शतमुच्यते | सहस्रं मानसं प्रोक्तं सगर्भस्तच्छताधिकः || ६० || प्. ८०) सगर्भोऽगर्भश्च जपः प्राणायाम समायुक्तः सगर्भो जप उच्यते | प्राणायामेन रहितो ह्यगर्भो जप उच्यते || ६१ || चत्वारिंशत्समावृत्तिं प्राणायामं तु संस्मरेत् | मन्त्रं मन्त्रार्थविधिमानशक्तः शक्तितो जपेत् || ६२ || पञ्चकं त्रिकमेकं वा प्राणायामं समाचरेत् | अगर्भं वा सगर्भं वा सगर्भस्तु प्रशस्यते || ६३ || सगर्भादपि साहस्रं सध्यानो जप उच्यते | एषु पञ्चविधेष्वेव कर्तव्यः शक्तितो जपः || ६४ || अङ्गुल्यादिषु जपफलभेदः अङ्गुल्या जपसंख्यानादेकमेकमुदाहृतम् | रेखयाऽष्टगुणं विद्यात् पुत्रजीवैर्दशाधिकम् || ६५ || शतं स्याच्छङ्खमणिभिः प्रवालैस्तु सहस्रकम् | स्फटिकैर्दशसाहस्रं मौक्तिकैर्लक्षमुच्यते || ६६ || पद्माक्षैर्दशलक्षं तु सौवर्णैः कोटिरुच्यते | कुशग्रन्थ्या च रुद्राक्षैरनन्तफलमुच्यते || ६७ || प्. ८१) जपमाला त्रिंशदक्षैः कृता माला धनदा जपकर्मणि | सप्तविंशतिसंख्याकैरक्षैः पुष्टिप्रदा भवेत् || ६८ || पञ्चविंशतिसम्ख्याकैः कृता मुक्तिं प्रयच्छति | अक्षैस्तु पञ्चदशभिरभिचारफलप्रदा || ६९ || अङ्गुष्ठं मोक्षदं विद्यात्तर्जनी शत्रुनाशिनी | मध्यमा धनदा शातिं करोत्येव ह्यनामिका || कनिष्ठाऽकर्षणे प्रोक्ता जपकर्मणि गीष्पते || ७० || अङ्गुष्ठेन जपेज्जप्यमन्यैरङ्गुलिभिः सह | अङ्गुष्ठेन विना जप्यं कृतं तदफलं यतः || ७१ || स्थानादिभेदेन फलभेदः गृहे जपं समं विद्याद् गोष्ठे शतगुणं भवेत् | पुण्यारण्ये तथाऽरामे सहस्रगुणमुच्यते || ७२ || अयुतं पर्वते रम्ये नद्यां लक्षमुदाहृतम् | कोटिं देवालये विद्यादनन्तं शिवसन्निधौ || ७३ || यदिष्टलिङ्गं संपश्यन् वामहस्तस्थितं परम् | जपते तत्फलं वक्तुं न मया शक्यते गुरो || ७४ || प्. ८२) सूर्यस्याग्नेर्गुरोरिन्दोर्दीपस्य च जलस्य च | विप्राणां च गवां चैव सन्निधौ शस्यते जपः || ७५ || तत्पूर्वाभिमुखं वश्यं दक्षिणं चाभिचारिकम् | पश्चिमं धनदं विद्यादुत्तरं शान्तिदं भवेत् || ७६ || जपकाले वर्ज्यम् उष्णीषी कञ्चुकी नग्नो मुक्तकेशो गलावृतः | अपवित्रकरोऽशुद्धो विलपन्न जपेत् क्वचित् || ७७ || क्रोधं मदं क्षुधां तन्द्रां निष्ठीवनविजृम्भणे | दर्शनं च श्वनीचानां वर्जयेज्जपकर्मणि || ७८ || आचामेत् सम्भवे तेषां स्मरेत् साम्बं त्रियम्बकम् | ज्योतींषि च प्रपश्येद् वा कुर्याद् वा प्राणसंयमम् || ७९ || अशानश्च शयानश्च गच्छन्नुत्थित एव वा | रथ्यायामशिवे स्थानेन जपेत् तिमिरान्तरे || ८० || प्रसार्य न जपेत् पादौ कुक्कुटासन एव वा | यानशययाधिरूढो वा चिन्ताव्याकुलितोऽपि वा || सदाचारो चपन् जुह्वन् ध्यायन् भद्रं समश्नुते || ८१ || प्. ८३) रहस्यमन्यद्वक्ष्यामि गोपनीयमिदं शृणु | न वाच्यं यस्य कस्यापि नास्तिकस्याथवा पशोः || ८२ || पञ्चाक्षरमन्त्रमहिमा सदाचारविहीनस्य पतितस्यान्त्यजस्य वा | पञ्चाक्षरात् परं नास्ति परित्राणं कलौ युगे || ८३ || गच्छतस्तिष्ठतो वापि स्वेच्छया कर्म कुर्वतः | अशुचेर्वा शुचेर्वापि मन्त्रोऽयं न च निष्फलः || ८४ || अनाचारवतां पुंसामविशुद्धषडध्वनाम् | अनादिष्टोऽपि गुरुणा मन्त्रोऽयं न च निष्फलः || ८५ || अन्त्यजस्यापि मूढस्य मूर्खस्य पतितस्य च | निर्मर्यादस्य नीचस्य मन्त्रोऽयं न च निष्फलः || ८६ || सर्वावस्थांगतस्यापि मयि भक्तिमतः सदा | सिद्ध्यत्येष न सन्देहो नापरस्य तु कस्यचित् || ८७ || न कदाचन कस्यापि रिपुरेष महामनुः | सिद्धो वाऽथ सुसिद्धो वा साध्यो वाऽथ भविष्यति || ८८ || प्. ८४) सिद्धेन गुरुणाऽदिष्टः सुसिद्ध इति कथ्यते | असिद्धेनापि वा दत्तः सिद्धः साध्यस्तु केवलम् || ८९ || असाधितः साधितो वा सिद्ध्यत्येष न संशयः | श्रद्धातिशययुक्तस्य शिवे मन्त्रे तथा गुरौ || ९० || पञ्चाक्षरीविद्यामाश्रयेत् तस्मान्मन्त्रान्तरांस्त्यक्त्वा सा पायानधिकारतः | आश्रयेत् परमां विद्यां हृद्यां पञ्चाक्षरीं बुधः || ९१ || मन्त्रान्तरेषु सिद्धेषु मन्त्र एष न सिद्ध्यति | अस्मिन् सिद्धे महामन्त्रे तेऽपि सिद्धा भवन्ति हि || ९२ || अपारो महिमा शैवपञ्चाक्षरमहामनोः | न वक्तुं विधिना शक्यः संक्षिप्योक्तो मयानध || ९३ || आवरणाष्टकप्रकरणोपसंहारः इदं हि शैवदीक्षाया महदावरणाष्टकम् | प्रथितं सर्वविद्यासु प्रत्येकमपि मुक्तिदम् || ९४ || प्. ८५ गदितं त्वयि संप्रीत्या भुवनानुजिधृक्षया | वृन्दारककुलाचार्य किमन्यच्छ्रोतुमिच्छसि || ९५ || इति श्रीचन्द्रज्ञानागमे उत्तरभागेऽनन्तरुद्रबृहस्पतिसंवादे शिवशासने क्रियापादे पञ्चाक्षरस्वरूपनिरूपणं नामाष्टमः पटलः || ८ || नवमः पटलः बृहस्पतिरुवाच सर्वागमार्थसारज्ञ सर्वभूतदयापर | जगदुद्धरणोन्निद्रानन्तरुद्र नमोऽस्तु ते || १ || अष्टावरणमाहात्म्यमनन्तश्रुतिचोदितम् | श्रीमन्मुखादिहाकर्ण्य परां तृप्तिमवाप्नुवम् || २ || आचाराणां च पञ्चानां स्वरूपं विनिबोध्य माम् | अनुगृह्णीष्व कृपया सुरासुरनमस्कृत || ३ || अनन्तरुद्र उवाच पञ्चाचारनिरूपणम् लिङ्गाचारः सदाचारः शिवाचारस्तथैव च | भृत्याचारो गणाचारः पञ्चाचाराः प्रकीर्तिताः || ४ || गुरुणा दत्तलिङ्गाद्वै नास्ति दैवं महीतले | इति भावानुसन्धानं लिङ्गाचारः स उच्यते || ५ || धर्माजितेन द्रव्येण यत् सन्तर्पणमन्वहम् | गुरुलिङ्गजङ्गमानां सदाचार इति स्मृतः || ६ || शिव एव परं ब्रह्म पञ्चकृत्यपरायणम् | न ततोऽन्या गतिरिति शिवाचारो हि कीर्तितः || ७ || प्. ८७) शिवस्य शिवभक्तस्य शिवधर्मादिकस्य च | न शृणोति च यन्निन्दां च गणाचार उच्यते || ८ || शिवभक्तजनाः सर्वे वरिष्ठाः पृथिवीतले | तेषां भृत्योऽहमिति यद् भृत्याचार इति स्मृतः || ९ || इहोक्तानां च पञ्चानामाचाराणां सुरोत्तम | प्रकारान्तरमस्त्यत्र वक्ष्ये तदपि च शृणु || १० || १. लिङ्गाचारः लिङ्गाचारं प्रवक्ष्यामि प्रथमं मङ्गलालयम् | क्रियावेधामन्वभिख्यदीक्षान्तर्गतमूर्तयः || एकविंशतिदीक्षाश्च लिङ्गाचार इति स्मृतः || ११ || सप्तविधा दीक्षा आज्ञोपमा च कलशैरभिषेकस्ततः परम् | स्वस्तिकारोहणं भूतिपट्टमायत्तमेव च || स्वायत्तमिति सप्तैताः क्रियादीक्षान्तरा मताः || १२ || समयश्चाप्यसंसारस्तत्त्वं ज्ञानमनुग्रहः | अध्यात्मशुद्धविद्ये च सप्त वेधान्तराः स्मृताः || १३ || प्. ८८) दृढव्रतमहिंसा च तस्मै पञ्चन्द्रियार्पणम् | एकाग्रचित्तसंपत्तिः परतत्त्वे सदा रतिः || १४ || लिङ्गे निजमनोलीनं सद्योमुक्तिश्च शाश्वती | एवं सप्तविधा दीक्षा मनुदीक्षान्तराः स्मृताः || १५ || २. सदाचारः सदाचारं प्रवक्ष्यामि सावधानमनाः शृणु | आचार एव सर्वेषामलङ्काराय कल्पते || आचारहीनः पुरुषो लोके भवति निन्दितः || १६ || ज्ञानेनाचारयुक्तेन प्रसीदति महेश्वरः | तस्मादाचारवान् ज्ञानी भवेदादेहपातनम् || १७ || शिवस्य भक्तिराधार आचारः सर्वदेहिनाम् | आचारः परमो धर्म आचारः परमं धनम् || १८ || ज्ञानमाचारहीनं चेन्न तद्भवति सिद्धये | शृणु तस्मिन् सदाचारे शीलमष्टविध भवेत् || १९ || सदाचारेऽष्टविधं शीलम् अङ्कुरं प्रथमं ज्ञेयमुत्पन्नं च द्वितीयकम् | द्विदलं च तृतीयं स्यात् प्रवृद्धं च चतुर्थकम् || २० || प्. ८९) सप्रकाण्डं पञ्चमं स्यात् सशाखं षष्ठमुच्यते | सपुष्पं सप्तमं ज्ञेयं सफलं चाष्टमं भवेत् || २१ || सदाचारोऽष्टशीलाढ्यः सेवितः कल्पपादपः | सद्भक्तानां सुमनसां ददातीष्टफलं महत् || २२ || अङ्कुरादिशीललक्षणम् अङ्कुराख्यं प्रवक्ष्यामि बीजभूतं समासतः | गुरुकारुण्यकलितषडध्वन्यासशोभिता || तनुः स्वीया प्राकृतेति भावोऽङ्कुर इतीर्यते || २३ || दीक्षितैरेव दाराद्यैः सहवासो य आत्मनः | शीलमुत्पन्नमित्युक्तं ग्राह्यमेतद्विचक्षणैः || २४ || लाञ्छनानां हि शैवानां भस्मादीनामनारतम् | धारणं त्वप्रमादेन द्विदलं शीलमुच्यते || २५ || यन्नित्यं शिवधर्माणां माहात्म्यस्य विभावनम् | प्रवृद्धं शीलमित्युक्तं भक्तेर्वृद्धिकरं श्रुतम् || २६ || इष्टलिङ्गमनभ्यर्च्य स्थीयते यदभोजनम् | सप्रकाण्डमिदं शीलं विज्ञेयं भक्तिसाधनम् || २७ || प्. ९०) इष्टलिङ्गानर्पितस्य द्रव्यस्याग्रहणं हि यत् | शीलं सशाखमित्युक्तमवर्ज्यं भक्तितत्परैः || २८ || शिवार्पितप्रसादस्य यत् परित्यागवर्जनम् | सपुष्पं शीलमित्युक्तं विज्ञेयं चैतदुत्तमम् || २९ || गुरुजङ्गमलिङ्गानां यदेकत्वेन भावनम् | सफलं शीलमित्युक्तं सद्यः सिद्धिकरं परम् || ३० || यः सदाचारमष्टाङ्गं भक्तिनिष्ठो निषेवते | स सद्यः सिद्धिमाप्नोति परां शम्भोरनुग्रहात् || ३१ || ३. शिवाचारः शिवाचारमतो वक्ष्ये शृणुष्वावहितो मुने | द्रव्यक्षेत्रगृहादीनां षोडशानां विशोधनम् || शिवशास्त्रोक्तमार्गेण शिवाचार इति स्मृतः || ३२ || षोडश शुद्धयः भक्तहस्तगतं वापि भस्मना वा विशोधितम् | फलमूलादिकं ग्राह्यं द्रव्यशुद्धिरियं मता || ३३ || नन्दिमुद्राङ्कितशिलादार्वादिपरिशोभितम् | क्षेत्रं भक्तिपरैग्राह्यं क्षेत्रशुद्धिः प्रकीर्तित || ३४ || प्. ९१) भक्तैस्तु निर्मितं वापि शिवलिङ्गाङ्कितं तु वा | वेश्म भक्तैः परिग्राह्यं गृहशुद्धिः समीरिता || ३५ || भक्तेन निर्मितं वापि शिवलिङ्गाङ्कितं तु वा | भाण्डजातं परिग्राह्यं भाण्डशुद्धिः प्रकीर्तिता || ३६ || भक्तलोकसमानीतं भस्मना संस्कृतं तु वा | तृणादिकं परिग्राह्यं तृणशुद्धिरितीरिता || ३७ || भक्तियुक्तसमानीतं विभूत्या संस्कृतं तु वा | काष्ठं व्रतस्थैः संग्राह्यं काष्ठशुद्धिः समीरिता || ३८ || भक्तारामे समुत्पन्नैर्भस्मना संस्कृतैस्तु वा | भक्तैस्तु साधितेनाऽपि विभूत्या संस्कृतेन वा || ३९ || नागवल्लीदलैः पूगैश्चूर्णेन च समन्वितम् | ग्राह्यं भक्तैर्हि ताम्बूलं वीटिकाशुद्धिरीरिता || ४० || शिवदीक्षान्वितैः पक्वमभक्तानवलोकितम् | भोज्यं भक्तैः परिग्राह्यं पाकशुद्धिरियं मता || ४१ || घृतं दधि पयस्तक्रं माहिषं चाविकं त्यजेत् | गव्यं तु सर्वदा ग्राह्यं रसशुद्धिरियं मता || ४२ || प्. ९२) पुनर्भवनिदानोक्तकाम्यकर्मविसर्जनात् | जन्मराहित्यसम्पत्तिर्भवशुद्धिर्निगद्यते || ४३ || सर्वभूतदयालुत्वं पाञ्चभौतिकसंस्कृतिः | भूतदूषणराहित्यं भूतशुद्धिः समीरिता || ४४ || सर्वकामान् समुज्झित्य शिवभावानुभावनम् | चेतसा यत् सर्वकालं भावशुद्धिः समीरिता || ४५ || पद्भ्यां पिपीलिकादीनां न यथा हिंसनं भवेत् | गमनं हि परिग्राह्यं मार्गशुद्धिरियं मता || ४६ || शास्त्रसंचोदिते काले निःशब्दे च मनोरमे | शिवलिङ्गाराधनं यत् कालशुद्धिरिहोदिता || ४७ || अनृतं परुषं कुत्सं बीभत्सं दाम्भिकं च यत् | विसर्जनं तद्वचसो वाक्शुद्धिरिति कथ्यते || ४८ || आसने शयने याने गोष्ठ्यां सर्वत्र सर्वदा | सद्भक्तजनसाङ्गत्यं जनशुद्धिः समीरिता || ४९ || विद्वन्नयं शिवचारः सर्वशास्त्रेषु गोपितः | एतदाचरणान्मर्त्यः शिवसायुज्यभश्नुते || ५० || प्. ९३) ४. गणाचारः गणाचारमतो वक्ष्ये भोगमोक्षैकसाधनम् | अनुष्ठितो भक्तगणैर्गणाचार इतीरितः || ५१ || चतुष्षष्टिशीलानि सर्वोत्तमे गणाचारे सद्यःसिद्धिकरे परे | शीलानि तु चतुःषष्टिर्वर्तन्ते तानि संशृणु || ५२ || तत्र सप्तकायिकशीलानि भक्तिनिष्ठेन यद्वाचा यथार्थस्यैव भाषणम् | तत्सत्यं सर्वशास्त्रेषु प्रथमं शीलमुच्यते || ५३ || न वाच्यमप्रियं सत्यं नासत्यं च प्रियं वदेत् | ब्रूयात् प्रियं च यत्सत्यं द्वितीयं शीलमुच्यते || ५४ || वेदागमपुराणानां धर्मज्ञानैकबोधिनाम् | पठनं प्रत्यहं यत्तत्तृतीयं शीलमीरितम् || ५५ || शिवस्य शिवभक्तानां गुरोरपि विशेषतः | प्रशंसनं यदश्रान्तं चतुर्थं शीलमुच्यते || ५६ || अन्येषां चैव देवानां मानुषाणां च जातुचित् | प्रशंसावर्जनं यत्तत् पञ्चमं शीलमुच्यते || ५७ || कदाचित् कुत्रचिद्वा यदात्मस्तुतिविसर्जनम् | तत् षष्ठं शीलमित्युक्तं सर्वशास्त्रैकसम्मतम् || ५८ || प्. ९४) देवतानां मनुष्याणां निर्गुणानां च जातुचित् | गर्हाविसर्चनं यत्तत् सप्तमं शीलमुच्यते || ५९ || तदेतद्वाचिकं शीलमुक्तं सप्तविधं मया | अथ पाणिगतं यत्तु शीलं वक्ष्यामि तच्छृणु || ६० || पञ्चविधं पाणिगतं शीलम् गुरुजङ्गमलिङ्गानां क्रियते या नमस्कृतिः | शीलमष्टममित्युक्तमखिलागमबोधितम् || ६१ || पूजापरिकराणां यत्संपादनमहर्निशम् | शीलं नवममित्युक्तं शिवप्रीत्येककारणम् || ६२ || रुद्राक्षमालया नित्यं मूलमन्त्रजपोऽन्वहम् | दशमं शीलमित्युक्तमखिलाघविशोधनम् || ६३ || गुरोर्माहेश्वराणां च भवानीवल्लभस्य च | आराधनं प्रत्यहं तच्छीलमेकादशं स्मृतम् || ६४ || गुरवे जङ्गमेभ्यश्च शिवधर्माय भक्तितः | यथा शक्ति कृतं दानं द्वादशं शीलमुच्यते || ६५ || एवं पञ्चविधं शीलं पाणिसम्बद्धमीरितम् | अथ पादगतं वक्ष्ये शीलं पापौघनाशनम् || ६६ || प्. ९५) चतुर्विधं पादगतं शीलम् गुरोर्माहेश्वरस्याभिगमनं क्रियते हि यत् | तत् त्रयोदशमित्युक्तं शम्भुना सर्ववेदिना || ६७ || गुरोर्माहेश्वरस्यापि क्रियते यत् प्रदक्षिणम् | भक्तिभावयुतेनैव गदितं तच्चतुर्दशम् || ६८ || पूजापरिकराणां हि सम्पादनचिकीर्षया | भक्तेन गम्यते नित्यं तत् पञ्चदशकं मतम् || ६९ || गुरोरपीष्टलिङ्गस्य पूजार्थं स्थिरमासनम् | तत् षोडशकमित्युक्तं देवदेवेन शूलिना || ७० || एवं पादगतं शीलं चतुर्विधमितीरितम् | त्वक्सम्बद्धमतो वक्ष्ये तच्छृणुष्वावधानतः || ७१ || त्वक्संबद्धं शीलम् नित्यं यदिष्टलिङ्गस्य स्पर्शनं त्ववियोगतः | तत् सप्तदशकं प्रोक्तं वपुःसार्थकतास्पदम् || ७२ || इष्टलिङ्गस्पर्शजन्यरोमाञ्चसमलङ्कृतिः | अष्टादशं शीलमिति कथितं भवनाशकम् || ७३ || त्वक्सम्बद्धमिदं शीलं द्विविधं परिकीर्तितम् | चक्षुर्गतं प्रवक्ष्यामि शृणु तत्सावधानतः || ७४ || प्. ९६) चक्षुर्गतं शीलम् अश्रान्तं सानुरागं यदिष्टलिङ्गनिरीक्षणम् | एकोनविंशकं शीलमुक्तं भवभयाहपम् || ७५ || इष्टलिङ्गेक्षणोद्भूतानन्दबाष्पसमुद्गमः | विंशं शीलं विनिर्दिष्टं स्पष्टं चन्द्रार्धमौलिना || ७६ || एवं ते द्विविधं शीलं चक्षुःसम्बद्धमीरितम् | अथ जिह्वागतं वक्ष्ये शृणु श्रद्धासमन्वितः || ७७ || जिह्वागतं शीलम् निवेदितप्रसादीयरसास्वादो यदन्वहम् | एकविंशकमित्युक्तमथ घ्राणगतं शृणु || ७८ || घ्राणगतं शीलम् निर्माल्यगन्धपुष्पादिसौरभाघ्राणनं परम् | द्वाविंशकं समाख्यातमतः श्रोत्रगतं शृणु || ७९ || श्रोत्रगतं शीलम् गुरोः शिवस्य भक्तानां स्तोत्राकर्णनमन्वहम् | तत् त्रयोविंशकं प्रोक्तं मोक्षसम्प्राप्तिकारणम् || ८० || गुरोः शिवस्य भक्तानां निन्दानाकर्णनं हि यत् | तच्चतुर्विंशकं प्रोक्तं कायिकं तु ततः शृणु || ८१ || प्. ९७) कायिकं शीलम् गुरोरपीष्टलिङ्गस्य चरस्यैव प्रसादतः | कायशोधनमेतद्धि शीलं स्यात् पञ्चविंशकम् || ८२ || निषिद्धविषयेभ्यश्च यदिन्द्रियविनिग्रहः | षड्विंशं शीलमित्युक्तं भवदोषनिवारणम् || ८३ || अस्पृश्यवस्तुसंस्पर्शे स्नानं नीरेण भस्मना | शौचं हि सप्तविंशं स्याच्छीलं दोषनिवारणम् || ८४ || आसने शयने गोष्ठ्यां भविसम्बन्धवर्जनम् | अष्टाविंशमिदं शीलं निर्दिष्टं शौचसाधनम् || ८५ || भूतिरुद्राक्षलिङ्गानां शरीरे धारणं सदा | एकोनत्रिंशकं शीलं मोक्षमार्गैकसाधनम् || ८६ || कायिकं पञ्चधा प्रोक्तं मुक्तिप्राप्त्येकसाधनम् | अथ मानसिकं वक्ष्ये शीलमेकमनाः शृणु || ८७ || मानसिकं शीलम् निषिद्धभोगविषये यत् संकल्पविवर्जनम् | ब्रह्मचर्यं हि तच्छीलं त्रिंशमीश्वरचोदितम् || ८८ || प्. ९८) कामं भक्तिरसौकुर्यादविषयेषु न जातुचित् | एकत्रिंशमिदं शीलं निष्कामत्वं प्रकीर्तितम् || ८९ || वहेत् क्रोधमधर्मे तु न वैरिषु कदाचन | द्वात्रिंशकमिदं शीलमक्रोधं मुक्तिसाधनम् || ९० || न धनादौ वहेल्लोभं शिवस्याराधने वहेत् | अलोभाख्यमिदं शीलं त्रयस्त्रिंशं समीरितम् || ९१ || मोहं भक्तजने कुर्यान्न कान्तायां सुतेषु वा | अमोहाख्यमिदं शीलं चतुस्त्रिंशं प्रकीर्तितम् || ९२ || मात्सर्यं करणेष्वेव नजनेषु वहेत् क्वचित् | अमात्सर्यमिदं शीलं पञ्चत्रिंशं समीरितम् || ९३ || मदं मायाजये कुर्यान्न धर्मे नाऽपि संपदि | अमदाख्यमिदं शीलं षट्त्रिंशमिति कीर्तितम् || ९४ || गुणागुणविमर्शस्य त्यागो यस्तु गुरौ चरे | सप्तत्रिंशं समाख्यातं शीलं पुण्यफलप्रदम् || ९५ || प्राणिनो यस्य कस्यापि न बाधाकरणं हि यत् | अहिंसाख्यमिदं शीलमष्टत्रिंशं समीरितम् || ९६ || प्. ९९) प्राणिदुःखस्य वीक्षायामक्षमत्वं दयाभिधम् | शीलं प्रसिद्धमेकोनचत्वारिंशं प्रकीर्तितम् || ९७ || क्रियायां वचने वापि यत्परस्मात् स्वतोऽपि वा | ह्रीर्या शीलमिदं प्रोक्तं चत्वारिंशं त्रिशूलिना || ९८ || रिपौ निजसुते वापि यद्वैषम्यविवर्जनम् | आर्जवाख्यं शीलमेकचत्वारिंशमुदाहृतम् || ९९ || आगमे निगमे चैव विश्वासो यद्गुरुदिते | श्रद्धाख्यं शीलमेतद् द्विचत्वारिंशं समीरितम् || १०० || आपद्यपि दुरन्तायां धर्मस्य यदवर्जनम् | धृत्याख्यं शीलमेतत् त्रिचत्वारिंशं प्रकीर्तितम् || १०१ || अदूषणं वैरिजनेष्वपकारपरेष्वपि | शीलं क्षमाभिधं चतुश्चत्वारिंशं समीरितम् || १०२ || भोगप्रयुक्तवाञ्छाया राहित्यं यद्धिमानसे | भोगासक्तिच्युतिः पञ्चचत्वारिंशं समीरितम् || १०३ || क्रियायां वचने वापि प्रमादरहितस्थितिः | धीर्या शीलं तदिह षट्चत्वारिंशं विनिश्चितम् || १०४ || प्. १००) शिवान्यवस्तुविषयसंकल्पपरिवर्जनम् | शीलं दमाभिधं सप्तचत्वारिंशं प्रकीर्तितम् || १०५ || अन्यूनधर्मानुष्ठानं परद्रव्यापरिग्रहः | अस्तेयाख्यं शीलमष्टचत्वारिंशमुदाहृतम् || १०६ || अलब्धवस्तुविषयव्यसनाभावसुस्वितिः | संतुष्टिः शीलमेकोन पञ्चाशत्कं विनिश्चिनु || १०७ || पारमेश्वरयोर्नित्यं स्मरणं नामरूपयोः | जीवन्मुक्तिप्रदं शीलं पञ्चाशत्कं समीरितम् || १०८ || शम्भुनामगुणादीनां चिन्तनं यदनारतम् | शीलं पाशहरं त्वेकपञ्चाशत्कं प्रकीर्तितम् || १०९ || भाव्यमानं सदा शम्भोः पादसंवाहनादिकम् | पादसेवनमेतद् द्विपञ्चाशत्कमुदाहृतम् || ११० || अर्चनं मानसं यत् स्याच्छम्भोरावाहनादिना | शीलं त्विदं गीष्पते त्रिपञ्चाशत्कमुदाहृतम् || १११ || शम्भुपादाब्जयोर्नित्यं प्रणामो मानसो हि यत् | शीलमेतत्किल चतुःपञ्चाशं संप्रकीर्तितम् || ११२ || प्. १०१) कैङ्कर्यकरणं शम्भोर्मनसा सर्वदा हि यत् | दास्यं शीलमिदं प~चपञ्चाशमिति भाषितम् || ११३ || शम्भोः कल्याणरूपस्य सखिताभावनं हि यत् | सख्याख्यं शीलमेतत् षट्पञ्चाशमिति निश्चितम् || ११४ || बन्धमोचनभारस्य कृत्स्नस्येशे समर्पणम् | आत्मार्पणमिदं सप्तपञ्चाशं सम्प्रचोदितम् || ११५ || यज्जपो मूलमन्त्रस्य मनसा क्रियते सदा | शीलमेतत् सेव्यमष्टपञ्चाशमवधारितम् || ११६ || शम्भोर्यद् दिव्यरूपानुसन्धानं क्रियते हृदि | ध्यानाख्यं शीलमेकोनषष्टिकं परिकीर्तितम् || ११७ || ध्रियते तैलधारावदविच्छिन्नं तदेव यत् | धारणाख्यं शीलमिदं षष्टिकं समुदाहृतम् || ११८ || निवातदीपवद् ध्याने चेतसो यदवस्थितिः | समाध्याख्यं शीलमेकषष्टिकं सम्प्रचोदिकम् || ११९ || प्. १०२) सोऽहंभावेन विश्वेशं ध्यायन् कृत्यानि सर्वतः | तदिन्द्रियमुखेनैव क्रियमाणानि भावयन् || यदाचरति तच्छीलं द्विषष्टिकमुदाहृतम् || १२० || अपरिच्छिन्नरूपानुसन्धानं यन्महेशितुः | शीलमुक्तं सुराचार्य त्रिषष्टिकमुदाहृतम् || १२१ || अनन्तरूपं देवस्य भावयन्निजरुपतः | शिवानन्दवशाद् विश्वमात्मानं विस्मरन्नपि || यस्तिष्ठत्यचलः शीलं चतुष्षष्टिकमीरितम् || १२२ || यश्चतुष्पष्टिशीलाढ्यः शिव एव न चापरः | एतदभ्यासयोगेन शिवसायुज्यमश्नुते || गणाचार इति प्रोक्तो भृत्याचारमतः शृणु || १२३ || भृत्याचारः भृत्यत्वं वीरभृत्यत्वं भृत्याचारो द्विधा मतः | गुरुलिङ्गजङ्गमानां कैङ्कर्याचरणं हि यत् || भृत्यत्वमिति निर्दिष्टं देवदेवन शम्भुना || १२४ || प्. १०३) देशिकाय तनुं चित्तं शम्भवे च धनं तथा | जङ्गमाय समर्प्यैवं महोत्साहसमन्वितः || १२५ || मुक्तिमेव परां काङ्क्षमाणो यदवतिष्ठते | तन्मतं वीरभृत्यत्वं शिवानुग्रहसाधनम् || १२६ || इत्येवं कथितस्तुभ्यं पञ्चाचारविनिर्णयः | निगमागमसारोऽयं मुक्तिप्राप्त्येकसाधनः || १२७ || नाशिष्यायोपदेष्टव्यो नाभक्ताय कदाचन | नापुत्राय च वक्तव्यो न श्रद्धारहिताय च || गोपनीयः प्रयत्नेन किमतः श्रोतुमिच्छसि || १२८ || इति श्रीचन्द्रज्ञानागमे उत्तरभागेऽनन्तरुद्रबृहस्पतिसंवादे शिवशासने क्रियापादे पञ्चाचारस्वरूपनिरुपणं नाम नवमः पटलः || ९ || दशमः पटलः बृहस्पतिरुवाच सर्वभद्रगुणोपेत काद्रवेयपरिष्कृत | जनदुद्धरणोन्निद्रान्तरुद्र नमोऽस्तु ते || १ || आगमेषु निगद्यन्ते शैवभेदास्त्वनेकधा | चत्वारः क्वचिदुच्यन्ते तथा सप्तेति हि क्वचित् || २ || दशेति च क्वचित् प्रोक्ताः कथ्यन्ते क्वचिन्यथा | संगृह्य तानिह ब्रूहि परिष्कारमसंशयम् || ३ || अन्तरुद्र उवाच अष्टविधाः शैवाः अधुना ते प्रवक्ष्यामि शैवभेदमनुत्तमम् | अनादिशैवं प्रथममादिशैवं द्वितीयकम् || पूर्वशैवं तृतीयं स्यान्मिश्रशैवं चतुर्थकम् || ४ || शुद्धशैवं पञ्चमं स्यात् षष्ठं वै मार्गशैवकम् | सामान्यं सप्तमं ज्ञेयं वीरशैवमथाष्टमम् || ५ || १. अनादिशैवलक्षणम् अथ तल्लक्षणं वक्ष्ये यथावदनुपूर्वतः | अनादिशैवः शम्भुः स्यादाथ तस्य गणा अपि || प्. १०५) २. आदिशैवलक्षणम् आदिशैवास्तु विज्ञेयाः कौशिकाद्या महर्षयः || ६ || कौशिकः कश्यपश्चैव भरद्वाजात्रिगौतमाः | आदावेते महेशस्य पञ्चवक्त्रेषु दीषिताः || ७ || गुरोर्मुखाद्दीक्षिता हि तद्गोत्राश्चान्यगोत्रिणः | आगमान्तोक्तविधिना शाम्भवव्रतसेविनः || ८ || वेधामनुक्रियाभिख्यदीक्षात्रय विधानतः | लिङ्गत्रयपरिस्फूर्जदङ्गत्रितय शोभिनः || आदिशैवा इति भुवि निगद्यन्ते बृहस्पते || ९ || महेशस्य प्रतिष्ठायामुत्सवे स्नपनादिषु | आचार्यत्वे ह्यधिकृता आदिशैवा जगन्नुताः || १० || ३. पूर्वशैवलक्षणम् पूर्वशैवा हि विज्ञेयाः कानीनास्तु शिवद्विजाः | अनूढासु हि कन्यासु प्रभूताः पञ्चगोत्रिणः || ११ || दीक्षाणामिह शैवीनां पूर्वभागोदितात्मनाम् | ग्रहणाग्रहणाभ्यां च द्विविधास्ते शिवद्विचः || १२ || पूर्वकाण्डोक्तदीक्षाभिः संस्कृतास्ते ह्यलिङ्गिनः | स्वार्थे परार्थे यजनेऽधिकृतास्ते भवन्ति हि || १३ || प्. १०६) अर्चकत्वे हि देवस्य कैङ्कर्यकरणेऽपि च | शिवागारपरिष्कारेऽधिकृतास्ते सुरार्चित || १४ || नाचार्यत्वे ह्यधिकृतिः प्रतिष्ठादिषु कर्मसु | दीक्षितानामपि ह्येषां कानीनत्वादसंशयम् || १५ || (देवलकलक्षणम्) अथ येऽदीक्षिता एव परार्थयजने रताः | ते हि देवलकाः प्रोक्ताः सर्वकर्मविगर्हिताः || १६ || शिवागारादन्यदेशे तेषां स्पर्शोऽपि दोषदः | शिवार्चकत्वादेतेषां शैवत्वं तु परिस्फुटम् || १७ || शिवदीक्षाविदूरत्वात् शिवद्रव्यस्य भक्षणात् | शिवकैङ्कैर्यविषयश्रद्धालोपादिदोषतः || तन्मला इत्युदीर्यन्ते सर्वशास्त्रेषु गीष्पते || १८ || ४. मिश्रशैवलक्षणम् मिश्रशैवमथो वक्ष्ये सुराचार्य समाशृणु | आदित्यमम्बिकां विष्णुं गणनाथं महेश्वरम् || १९ || एकपीठे संनिवेश्य मिश्रीकृत्यार्चयन्ति ये | मिश्रशैवा इति हि ते प्रोच्यन्ते मिश्रपूजनात् || २० || प्. १०७) नैतेषां शिवदीक्षा स्यान्न शिवाधिक्यभावना | भस्मरुद्राक्षधरणाच्छैवत्वं मिश्रपूजनात् || मिश्रत्वं विद्यन्ते यस्मान्मिश्रशैवाः प्रकीर्तिताः || २१ || अन्तश्शाक्तं बहिश्शैवं सभामध्ये तु वैष्णवम् | मिश्रितं दृश्यन्ते यस्मान्मिश्रशैवाः प्रकीर्तिताः || २२ || ५. शुद्धशैवलक्षणम् शुद्धशैवमतो वक्ष्ये प्रसिद्धं सुमनोर्चित | भस्मरुद्राक्षधरणात्मक पौराणदीक्षया || दीक्षिताः शिवलिङ्गैकपूजातत्परचेतसः || २३ || शिवपारम्यविश्वासाः शिवभावानुभाविनः | शुद्धशैवा इति भुवि निगद्यन्ते बृहस्पते || २४ || ६. मार्गशैवलक्षणम् मार्गशैवं प्रवक्ष्यामि मुक्तिसन्निधिमार्गकम् | वेदागमान्तगदितदीक्षात्रयपरिग्रहः || षट्स्थलज्ञानसम्पत्तिः षट्कालशिवपूजनम् || २५ || प्. १०८) एकविंशतिसाहस्रयुतषच्छत संख्यया | षडक्षरीजपो नित्यं लिङ्गैक्यविभावनम् || धर्मोऽयं मार्गशैवान्तमीश्वरेण प्रकीर्तिताः || २६ || आदिशैवेन तौल्येऽपि दीक्षादीनां परिग्रहे | विशिष्टानां हि धमाणां शीघ्रमुक्तिप्रदायिनाम् || निरन्तरानुष्ठानं यद्मार्गशैवे विशिष्यते || २७ || ७. सामान्यशैवलक्षणम् सामान्यशैवं वक्ष्यामि तच्छृणुष्वावधानतः | शाक्ताद्याः सर्व एवैते मतपञ्चकवर्तिनः || २८ || अध्वशोधनसंस्काराद्गायत्रीग्रहणादपि | सामान्यशैवा इति हि निगद्यन्ते धरातले || २९ || प्. १०९) ८. वीरशैवलक्षणम् वीरशैवं प्रवक्ष्यामि विदितं श्रुतितन्त्रयोः | श्रौतं स्वतन्त्रमिति च द्विविधं परिकीर्तितम् || ३० || वर्णाश्रमीयधर्माढ्यं श्रौतमित्यभिधीयते | तदीयधर्मरहितं स्वतन्त्रमिति कथ्यते || ३१ || आगमोत्तरकाण्डोक्तदीक्षाणां यः परिग्रहः | समान आदिशैवेन विशेषमिह संशृणु || ३२ || इष्टलिङ्गवियोगे वा व्रतानां वा परिच्युतौ | तृणवत् प्राणसंत्याग इति वीरव्रतं मतम् || ३३ || भक्त्युत्साहविशेषोऽपि वीरत्वमिति कथ्यते | वीरव्रतसमायोगाद्वीरशैवं प्रकीर्तितम् || ३४ || वीरशैवभेदाः पुनः त्रिविधमेतद्धि सामान्यादिप्रभेदतः | सामान्यश्च विशेषश्च निराभारीति च त्रिधा || ३५ || सामान्यवीरशैवलक्षणम् अथ लक्षणमेतेषां क्रमाद् वक्ष्यामि संशृणु | इष्टादिलिङ्गत्रितयस्यैकीभावेन चार्चनम् || गुरौ माहेश्वरे स्वेष्टलिङ्गे च समभावना || ३६ || प्. ११०) त्रिकालं लिङ्गपूजा च सम्भवद्भिः पदार्थकैः | सामान्यवीरशैवस्य धर्मोऽयं परिकीर्तितः || विशेषवीरशैवलक्षणम् विशेषधर्मानुष्ठानाद् विशेषश्च स एव हि || ३७ || एकं माहेश्वरं वापि द्वौ वा त्रीन् प्रतिवासरम् | भोजयित्वा हि तच्छेषं भुञ्जीयादप्रमादतः || षट्कालं लिङ्गपूजा च नियतैस्तु पदार्थकैः || ३८ || द्रोणपुष्पं बिल्वपत्रं करवीरमथापि वा | मल्लिकोत्पलपुन्नागजात्यादिकुसुमानि वा || ३९ || एष्वेकं त्रीणि द्वौ वापि ह्यर्पयेन्नियमान्वितः | एवं चरिष्ये नियमानहमाप्राणसंचरात् || ४० || नान्यथा बिभृयां प्राणानिति यो नियमः स्मृतः | इत्यादिनियमैर्युक्तो विशेष इति कथ्यते || ४१ || निराभारीवीरशैवलक्षणम् तुरीयाश्रमसेवी तु निराभारीति चोच्यते | स्वतन्त्रे त्यक्तदारादिर्निराभारीति कथ्यते || ४२ || प्. १११) स्वतन्त्रो निराभारी मुण्डी वा जटिलो वापि दण्डकाषायसंयुतः | स्वतन्त्रे वीरशैवे तु निराभारी चरेन्महीम् || ४३ || वैदिको निराभारी शिखायज्ञोपवीताढ्यो दण्डकाषायचेलवान् | वैदिके वीरशैवे तु निराभारीति स स्मृतः || स्वेष्टलिङ्गावियोगस्तु समान उभयोः स्मृतः || ४४ || निराभारसामान्यलक्षणम् निस्पृहो निजलिङ्गैक्यो भिक्षाशी भयवर्जितः | मौनी भूतदयायुक्तो निराभार इति स्मृतः || ४५ || कन्थाकमण्डलुधरो भूतिरुद्राक्षसंयुतः | दण्डकौपीनधारी च निराभारीति गीयते || ४६ || निराभाराश्रमस्थस्य सम्भवे तस्य सन्निधौ | ग्राह्योऽयमाश्रमस्तस्य मुखाद्धि प्रणवोऽपि च || ४७ || असम्भवे तादृशस्य शिवागारेऽथवा पुनः | बिल्वमूले परिग्राह्यो भवतीश्वरशासनात् || ४८ || प्. ११२) प्रणवे जप्यमानेऽपि सूक्ष्मपञ्चाक्षरात्मनि | स्थूलपञ्चाक्षरः शैवो न वर्ज्यो यतिभिः सदा || ४९ || दर्शनाचारादिप्रयुक्ता इमे शैवभेदाः आदेः पूर्वस्य शुद्धस्य तथैवं मार्गवीरयोः | सविशेषः शिवाद्वैतः श्रुतीनां सम्मतो मतः || ५० || मिश्रस्य शुद्धाद्वैताख्यो मतस्तु परिकल्पितः | सामान्यस्य विशिष्टोऽयं शक्त्याद्यद्वैत एव हि || ५१ || आदेर्मार्गस्य वीरस्य प्रेतकर्म न विद्यते | दहनं चैव सा पिण्ड्यं नैतेषां सम्मते ततः || ५२ || पूर्वादीनां तु प्रेतत्वं तत्प्रयुक्तं हि कर्म च | विशिष्यते यतस्तेषां न दीक्षा शाम्भवी परा || ५३ || आचारभेदमूलास्ते शैवभेदाः समीरिताः | प्रधानमेकमेव स्यात् सर्वविद्यासमन्वितम् || निर्गतोपपदं शैवं विदितं मुनिपुङ्गव || ५४ || यदा गमान्तविश्रान्तशैवदीक्षाभिशोभितम् | अङ्गत्रितयसम्बद्धलिङ्गत्रयविराजितम् || ५५ || प्. ११३) वर्णाश्रमीयधर्माढ्यं षट्स्थलज्ञानसंयुतम् | विशिष्टमष्टावरणैः पञ्चाचाराभिमण्डितम् || ५६ || सद्यः पाशक्षयकरं कर्म ज्ञानसमुच्चयम् | महेश्वरप्रतिष्ठादिकृत्याचार्यत्वशोभितम् || ५७ || अथापीदं तत्र तत्र बहुधैवाभिधीयते | तत्तद्गुणसमायोगात् तत्तन्नामाङ्कितं भवेत् || ५८ || अनादिसर्गसंचारादनादीदं निगद्यते | मतानामिह सर्वेषामाद्यत्वादपि गीष्पते || आदिशैवमिति ख्यातं क्वचिद्वेदविदुत्तम || ५९ || मुक्तिमार्गप्रधानत्वाद् मार्गशैवमिति श्रुतम् | देवतान्तरसम्बन्धवर्जनाच्छुद्धमित्यपि || ६० || स्मार्तकर्माभिसम्बन्धान्मिश्रमित्यपि च क्वचित् | वीरव्रतसमायोगाद्वीरशैवमिति स्मृतम् || ६१ || प्. ११४) इति ते गीष्पते सम्यक् शैवभेदः समीरितः | प्रधानमपि शैवं च किमन्यच्छ्रोतुमिच्छिसि || ६२ || इति श्रीचन्द्रज्ञानागमे उत्तरभागेऽनन्तरुद्रबृहस्पतिसंवादे शिवशासने क्रियापादे शैवभेदो नाम दशमः पटलः || १० || एकादशः पटलः बृहस्पतिरुवाच कङ्कालधर सर्वज्ञ कालकाल कृपानिधे | अनन्तरुद्र भगवान् नतोऽस्म्यनुगृहाण माम् || १ || शाम्भवव्रतनिष्ठानां शैवानां प्रयतात्मनाम् | आह्निकं श्रोतुमिच्छामि विधानं ब्रूह्यशेषतः || २ || अनन्तरुद्र उवाच शाम्भवव्रतनिष्ठानामाह्निकम् ब्राह्मे मुहूर्त उत्थाय नेत्रयोरिष्टलिङ्गकम् | स्पर्शयन्नीश्वरं साम्बं ध्यात्वा कार्यं विचार्य च || शौचाचारनिरूपणम् बहिर्विदिशमाग्नेयीं गच्छेदारादतन्द्रितः || ३ || शिवसूत्रं यज्ञसूत्रं मूर्ध्नि विन्यस्य वाससा | प्रावृत्य च शिरोऽन्यत्र जलपात्रं निधाय च || विसृज्य चैव विण्मूत्रे शौचं कुर्याद्विधानतः || ४ || प्. ११६) ततो दन्तान् धावयेच्च क्षीरिकण्टकिशाखया | अलाभे दन्तकाष्ठानां सदाचारसमन्वितः || ५ || अपां द्वादशगण्डूषैः कुर्यादास्यविशोधनम् | आचम्य चाथ नद्यादौ वारुणस्नानमाचरेत् || ६ || वारुणस्नानादिकम् सोपवीतः शिखां बद्ध्वा प्रविश्य च जलान्तरम् | शिवतीर्थं विधायाथ तन्मध्ये स्नानमाचरेत् || ७ || शिवब्रह्माङ्गविद्याङ्गैः स्नानं कृत्वा विधानतः | पञ्चब्रह्मशिवाङ्गैश्च त्रिः पठेदघमर्षणम् || ८ || देवादींस्तर्पयित्वाऽथ शिवतीर्थं तु संहरेत् | अथार्द्रवसने त्यक्त्वा बिभृयाद् धौतवाससी || ९ || भस्मस्नानादिकम् मज्जयित्वेष्टलिङ्गं च गृहीत्वा भसितं ततः | भस्मस्नानं ततः कुर्यात् सर्वदोषनिवृत्तये || १० || प्. ११७) सर्वाङ्गोद्धूलनं कुर्याच्छुष्केण सितभस्मना | सजलेन च तेनाथ सर्वाङ्गमवगुण्ठयेत् || ११ || मूलतो मन्त्रितेनाथ सजलेनैव भस्मना | बिभृयाच्च त्रिपुण्ड्राणि द्वात्रिंशत्स्थानकेषु हि || १२ || त्रिपुण्ड्रधारणम् उत्तमाङ्गे ललाटे च कर्णयोर्नेत्रयोर्द्वयोः | नासावक्त्रगलेष्वेवमंसद्वितयके तथा || १३ || कूर्परे मणिबन्धे च हृदये पार्श्वयोर्द्वयोः | नाभौ गुह्यद्वये चैव ऊर्वोः स्फिग्बिम्बजानुषु || १४ || जङ्घाद्वये च पदयोर्द्वात्रिंशत् स्थानमुत्तमम् | धृत्वा चैवं त्रिपुण्ड्राणि रुद्राक्षान् बिभृयात् ततः || १५ || सन्ध्योपासनम् सन्ध्याद्वयमुपासीत सावित्रीमूलमन्त्रगम् | अर्चां निर्वर्तयेत् पश्चादरुणोदयकालिकीम् || १६ || जपित्वाऽथ च सावित्रीं प्रसिद्धां मन्त्रमातरम् | उपतिष्ठेन्महादेवं भानुमण्डलमध्यगम् || षडक्षरीं जपेच्चापि समाहितमना यथा || १७ || प्. ११८) ध्यायेद् देवं च देवीं च प्राङ्मुखो वाप्युदङ्मुखः | स्वगुरुं च पुनर्देवं ततो नामाष्टकं जपेत् || १८ || शिवनामाष्टकम् शिवो महेश्वरश्चैव रुद्रः शम्भुरुमापतिः | संसारवैद्यः सर्वज्ञः परमात्मेति चाष्टकम् || १९ || पश्चात् करौ च प्रक्षाल्य कृत्वा चन्दनचर्चितौ | करन्यासं प्रकुर्वीत करशुद्धिपुरस्सरम् || २० || करन्यासादिकम् स्थित्युत्पत्तिलयाभिख्यः करन्यासस्त्रिधा मतः | गृहस्थानां स्थितिन्यास उत्पत्तिर्ब्रह्मचारिणाम् || यतीनां च वनस्थानां संहृतिन्यास इष्यते || २१ || विभर्तृकायाश्च तथा संहारन्यास उच्यते | उत्पत्तिरुक्तः कन्यायाः सुवासिन्याः स्थितिर्भवेत् || २२ || प्. ११९) अङ्गुष्ठादिकनिष्ठान्तं स्थितिन्यास इति स्मृतः | दक्षिणाङ्गुष्ठमारभ्य वामाङ्गुष्ठान्तमेव च || उत्पत्तिन्यास आख्यातो विपरीतस्तु संहृतिः || २३ || वर्णा ननु क्रमान्न्यस्येन्नकारादीन् सबिन्दुकान् | अङ्गुलीषु शिवं न्यस्य तलयोरपि पृष्ठयोः || अस्त्रन्यासं ततः कुर्याद् दशदिक्ष्वस्त्रमन्त्रतः || २४ || निवृत्त्यादिकलाध्यानम् पञ्चभूतात्मिकाः पञ्च निवृत्त्यादिकलाः पुनः | तत्तच्चिह्नयुताः सम्यक् पञ्चभूताधिपैः सह || २५ || हृत्कण्ठतालुभ्रूमध्यब्रह्मरन्ध्रेषु भावयेत् | विद्यां पञ्चाक्षरीं तासां शोधनार्थाय संजपेत् || २६ || विद्यामयो देहः सम्पादनीयः प्राणवायुं निरुद्ध्याथ गुणसंख्यानुसारतः | भूतग्रन्थिं ततश्छिन्द्यादस्त्रेणैवास्त्रमुद्रया || २७ || नाड्या सुषुम्नयाऽत्मानं प्रेरितं प्राणवायुना | निर्गतं ब्रह्मरन्ध्रेण योजयेच्छिवतेजसा || वायुना च विशोष्यैव देहं कालाग्निना दहेत् || २८ || प्. १२०) अमृतप्लावनं कृत्वा भस्मीभूतस्य तस्य वै | ततो विद्यामयं देहं सम्भूतमिति भावयेत् || २९ || ततो विद्यामये तस्मिन् देहे दीपशिखाकृतिम् | शिवान्निर्गतमात्मानं ब्रह्मरन्ध्रेण योजयेत् || ३० || अन्तर्देहं प्रविष्टं तं ध्यात्वा हृदयपङ्कजे | पुनश्चामृतवर्षेण सिञ्चेद् विद्यामयं वपुः || ३१ || पुनः कुर्यात् करन्यासं करशुद्धिपुरस्सरम् | देहन्यासं ततः कुर्यादङ्गन्यासं यथा विधि || ३२ || वर्णन्यासं ततः कुर्याद्धस्तपादादिसन्धिषु | षडङ्गानि ततो न्यस्य दिग्बन्धं च तदा चरेत् || ३३ || प्. १२१) एवं समासरूपेण कृत्वा देहात्मशोधनम् | शिवभावमुपागम्य शैवपञ्चाक्षरं जपेत् || ३४ || न्यासान्तराणि अथ यस्यास्त्यवसरो नास्ति वा मतिविभ्रमः | स विस्तीर्णेन कल्पेन न्यासकर्म समाचरेत् || ३५ || तत्राद्यो मातृकान्यासो ब्रह्मन्यासस्ततः परम् | तृतीयः प्रणवन्यासो हंसन्यासस्तदुत्तरः || पञ्चमः कथ्यते सद्भिर्न्यासः पञ्चाक्षरात्मकः || ३६ || एतेष्वेकमनेकं वा कुर्यात् पूजादिकर्मसु | यथा पूर्वोक्तमार्गेण शिवत्वं येन जायते || ३७ || ना शिवः शिवमभ्यस्येन्नाशिवः शिवमर्चयेत् | नाशिवस्तु शिवं ध्यायेन्नाशिवः शिवमाप्नुयात् || ३८ || शैवीं तनुं कृत्वा षडक्षरीं जपेत् ततः शैवीं तनुं कृत्वा जपेत् साङ्गां षडक्षरीम् | ओंकारवदना देवी वायकारभुजद्वयी || प्. १२२) शिकारदेहमध्या च नमःकारपदद्वयी || ३९ || पञ्चाक्षरी परा विद्या सतारा लिङ्गरूपिणी | अधिकारयुजां तारे ध्येया सा मन्त्ररूपिणी || ४० || तत्रानधिकृतानां तु मन्त्रं वक्ष्यामि संशृणु | शिकारवदना देवी वायकारभुजद्वयी || ४१ || विसर्गदेहमध्या च नमकारपदद्वयी | पञ्चाक्षरी परा विद्या वितारा लिङ्गरूपिणी || तारेऽधिकाररहितैर्ध्येया सेयं भवेद् द्विजैः || ४२ || स्थूलसूक्ष्मपञ्चाक्षरः अ-उमाश्चैव नादश्च कला चेत्यंशपञ्चकम् | मिलित्वा प्रणवो जज्ञे सूक्ष्मपञ्चाक्षरात्मकः || ४३ || तथा नमः शिवायेति स्थूलपञ्चाक्षरो भवेत् | प्रतिपाद्यो महत्त्वेऽपि नानयोर्विद्यते भिदा || ४४ || सूक्ष्मं मूलं भवेदस्य स्थूलं विवरणं मतम् | तारेऽधिकारयुक्तस्तु तारयुक्तं मनुं जपेत् || जपन्ननधिकारी तु तारं गच्छेदधोगतिम् || ४५ || प्. १२३) तारेण तुल्यसारोऽपि सोऽयं पञ्चाक्षरो मनुः | शासनाद् देवदेवस्य लोकानुग्रहकाङ्क्षिणः || आसीज्जप्यस्तु सर्वेषामाज्ञा शम्भोर्गरीयसी || ४६ || अग्निकार्यविधानम् श्रीरुद्रादींश्च जप्त्वाऽथ वह्न्यगारं प्रविश्य तु | होमं शिवाग्नौ कुर्वीत शैवसंस्कारसंस्कृते || ४७ || स्थालीपाके प्रवृत्ते तु गृह्याग्निं पुरतोऽपि वा | शैवं सम्पाद्य संस्कारैस्तत्र निर्वर्तयेत् क्रियाः || ४८ || वैतानिकं च विधिना शैवं सम्पादयेन्मखी | नित्यमौपासनं कर्म श्रौतं तत्रैव चेष्यते || वैश्वदेवादिगार्ह्याणि गृह्यशैवे समाचरेत् || ४९ || प्. १२४) समिधादिप्रमाणम् समिधो होमयोग्यास्तु वक्ष्यामि शृणु गीष्पते | पालाशखादिराश्वत्थशम्युदुम्बरजा समित् || अपामार्गकदूर्वाश्च कुशश्चेत्यपरे विदुः || ५० || सत्वचः समिधः कार्या ऋजुश्लक्ष्णसमास्तथा | शस्ता दशाङ्गुलास्तास्तु द्वादशाङ्गुलकास्तथा || ५१ || आर्द्राः शुष्काः समच्छेद्यास्तर्जन्यङ्गुलवर्तुलाः | अपातिताश्चाऽद्विशाखाः कृमिदोषविवर्जिताः || ५२ || प्. १२५) समित्पवित्रं वेदश्च त्रयं प्रादेशसम्मितम् | इध्मस्तु द्विगुणः कार्यस्त्रिगुणः परिधिः स्मृतः || स्मार्ते प्रादेश इध्मो वा द्विगुणः परिधिः स्मृतः || ५३ || अग्नेरङ्गानि अग्नेरङ्गानि वक्ष्यामि न होतव्यं च येषु वै | अग्निकर्णे हुते रोगो नासिकायां मनःक्षयः || ५४ || चक्षुषोर्निधनं प्रोक्तं केशे दारिद्यकृद् भवेत् | हुतं शिरसि पापं स्यात् तस्माज्जिह्वासु होमयेत् || ५५ || यत्र काष्ठं तु तच्छ्रोत्रं यत्र धूमस्तु नासिका | यत्राल्पज्वलनं नेत्रं यत्र भस्मानि तच्छिरः || यत्रैव ज्वलितो वह्निर्जिह्वा तत्रैव कीर्तिता || ५६ || अग्निकार्यं विधायैवं कर्तव्यमभिवादनम् | आद्यमष्टांशकं त्वेभिः कृत्यैरह्नः समापयेत् || ५७ || अह्नो द्वितीयभागकर्तव्यानि भागे द्वितीये निगमानभ्यसेदागमानपि | अध्यापयेच्च शास्त्राणि समिधादीनि चाहरेत् || पुष्पाणि विल्वपत्राणि श्रीगन्धप्रमुखानि च || ५८ || प्. १२६) तृतीयचतुर्थभागकृत्यानि अर्थसिद्ध्यै च कुर्वीत यत्नं भागे तृतीयके | चतुर्थे च तथा भागे मध्याह्नस्नानमाचरेत् || ५९ || भस्मस्नानं विधायाथ त्रिपुण्ड्राणि यथा विधि | यथा स्थानं च रुद्राक्षान् धृत्वा च तदनन्तरम् || ६० || सन्ध्याद्वयमुपासीत सावित्रीमूलमन्त्रगम् | कर्तव्याः पञ्चयज्ञाश्च गृहिणा स्वहितैषिणा || ६१ || ततो माध्याह्निकी पूजा गुर्वी वा महती लघुः | कर्तव्या तु यथा शक्ति भक्तिसंसक्तचेतसा || ६२ || षट्सु कालेष्विष्टलिङ्गाराधनम् षट्सु कालेषु सम्पूज्यं त्रिसन्ध्यमथवा पुनः | इष्टलिङ्गं महेशस्य सर्वानिष्टनिषूदनम् || ६३ || प्. १२७) अरुणस्योदये भानोरुदये संगवे तथा | मध्याह्ने च तथा सायमर्धरात्रौ बृहस्पते || षट्कालमर्चनीयं स्याच्छिवलिङ्गमनामयम् || ६४ || अवसरा पूजा अभोजने त्ववसरा विधेया ह्यन्यथा परा | लघुर्गुरुर्वा महती पूजा शक्त्यनुसारतः || ६५ || पण्डितो वाऽथवा मूर्खः प्रियो वा द्वेष्य एव वा | सम्प्राप्तो यस्तु पूजान्ते स वै शम्भुर्न संशयः || ६६ || माहेश्वरं हि सद्भक्त्या पूजयेद् गृहमागतम् | जङ्गमं च समाराध्य प्रसादमुपभुज्य च || ६७ || सुखमास्थाय निश्चिन्तस्तदन्नं परिणामयन् | स्तोत्राणि च महेशस्य पुराणानि पठेत् पुनः || आसायमथ कुर्वीत यत्नं पोष्यार्थसिद्धये || ६८ || सायंकृत्यानि सायं तु वारुणं स्नानं निर्वर्त्याग्नेयमेव वा | उपास्य पश्चिमे सन्ध्ये वह्निकार्यं समाप्य च || वैश्वदेवं विधायाथ रात्रिपूजां समाचरेत् || ६९ || प्. १२८) अतिथिं च समाराध्य प्रसादमुपभुज्य च | पठन् स्तोत्राणि वै शम्भोस्तदन्नं परिणामयन् || ७० || शम्भुं ध्यायन् सुखं शयीत अधिशययाऽभिरुचितां शययां शम्भुं शुचिः स्मरन् | ध्यायन् शयीत निश्चिन्तस्ततो निद्रासुखं व्रजेत् || ७१ || शाम्भवानामनुष्ठेयो धर्मस्ते विनिबोधितः | एवं समाचरन् मर्त्यो मुच्यते सर्वकिल्बिषैः || ७२ || नास्तिक्यादथ बालिश्याद् यो धर्मं न निषेवते | स गर्हामिह सम्प्राप्य हीनयोनिषु जायते || ७३ || इति श्रीचन्द्रज्ञानागमे उत्तरभागेऽनन्तरुद्रबृहस्पतिसंवादे शिवशासने क्रियापादे आह्निकविधिर्नाम एकादशः पटलः || ११ || द्वादशः पटलः बृहस्पतिरुवाच भगवन् सर्वधर्मज्ञ सर्वभूतहितेरत | शाम्भवानां मुमुक्षूणां शम्भुपादाब्जसेविनाम् || १ || वर्णाश्रमोचिता धर्माः कथमावश्यका विभो | शाम्भवव्रतमेवोक्तं परमं मुक्तिसाधनम् || २ || सत्येवं विविधैर्धर्मैर्ज्ञानप्रत्यूहकारिभिः | भक्तानां देवदेवस्य किं फलं समनुष्ठितैः || ३ || अनन्तरुद्र उवाच गीष्पते ते प्रवक्ष्यामि सावधानमनाः शृणु | इदं रहस्यं परमं परं सन्दिहते बुधाः || ४ || ज्ञानकर्मसमुच्चयः ज्ञानं हि परमेशस्य गदितं मुक्तिदं मुने | तत् कर्मसहितं प्रोक्तं मुक्तिदानक्षमं त्विति || ५ || अपश्यन्नन्धको दग्धः पश्यन् दहति पङ्गुलः | अन्धपङ्गुवदन्योन्यसापेक्षे ज्ञानकर्मणी || ६ || प्. १३०) कर्म वैदिकमप्येके मन्यन्ते बन्धकं जनाः | तत्तथा ज्ञानरहितं मुक्तिदं ज्ञानसंयुतम् || ७ || यदपीश्वरनि ध्याननिष्ठाविवशचेतसः | न कर्मणा विनिर्बन्धो विद्यते परमार्थतः || ८ || कर्म नैव सन्त्याज्यम् तदपीश्वरनि ध्याननिष्ठाभ्यासपरस्य च | अविस्मृतप्रपञ्चस्य साधकस्य हितैषिणः || न भवेत् कर्म सन्त्याज्यं वर्णाश्रमनियन्त्रितम् || ९ || अनर्पितं यदीशाय यदज्ञानविचेष्टितम् | फलाभिसन्धिसहितं यत्तद् बन्धकरं मतम् || १० || अर्पितं यन्महेशाय यच्च ज्ञानसमन्वितम् | फलाभिसन्धिरहितं यत्तन्मुक्तिकरं मतम् || ११ || न कर्मणामनारम्भो मुक्त्यै स्यान्मुनिपुङ्गव | बुद्ध्या यः कर्मसन्त्यागः स दोषाय भवेद् ध्रुवम् || जहाति कर्म ध्यानस्थं सुप्तहस्तस्थपुष्पवत् || १२ || प्. १३१) न यावल्लयमाप्नोति चित्तं शम्भौ परात्मनि | न तावत् कर्म संत्यक्तुं युज्यते सुरसन्नुत || १३ || तस्माद् धीकुशलैर्धर्मः स्वस्ववर्णाश्रमोचितः | सादरं समनुष्ठेयस्त्वन्यथा पतति ध्रुवम् || १४ || त्यक्तवर्णाश्रमाचारस्त्व सिद्धज्ञानवैभवः | पतत्येव न सन्देहश्छिन्न स्वाधारशाखिवत् || १५ || अतो वर्णाश्रमाचारो निगमागमचोदितः | अवश्यं समनुष्ठेयः सततं भक्तितत्परैः || १६ || इति श्रीचन्द्रज्ञानागमे उत्तरभागेऽनन्तरुद्र बृहस्पतिसंवादे शिवशासने क्रियापादे वर्णाश्रमधर्मावश्यकताकथनं नाम द्वादशः पटलः || १२ || चर्यापादे प्रथमः पटलः बृहस्पतिरुवाच अनन्तविद्यानिलय विलसत्करुणालय | अनन्तरुद्र भगवन् प्रणतोऽस्मि जगद्गुरो || १ || शाम्भवव्रतमाहात्म्यमागमान्तगतं श्रुतम् | शाम्भवव्रतिनां धर्माः क्रियापादे ह्यशेषतः || श्रीमन्मुखादधिगता मयाऽवहितचेतसा || २ || अथैतद्व्रतनिष्ठानां द्विजानां लिङ्गधारिणाम् | कर्तव्यमखिलं ब्रूहि विधानं त्वौर्ध्वदेहिकम् || ३ || अनन्तरुद्र उवाच गीष्पते ते प्रवक्ष्यामि शृणुष्वैकमना मुने | शाम्भवव्रतनिष्ठानामवसानविधिं परम् || ४ || येनैव संस्कृतो मुक्तिं व्रती गच्छेदसंभवम् | येनैव संस्कृतो मुच्येद् धर्महीनोऽपि तत्क्षणात् || ५ || शिवमेधनिरूपणम् शाम्भवव्रतनिष्ठानामिष्टलिङ्गैकसेविनाम् | देहावसाने कर्तव्यः शिवमेधविधिर्महान् || ६ || प्. १३३) शिवे परे प्रविष्टानां मेध आराधनात्मकः | शिवमेध इति ख्यातः करणीयो मुमुक्षुभिः || विशिष्टः पितृमेधोऽयं शिवमेध इतीर्यते || ७ || शिवमेधे श्रद्धाहीनस्य पातित्यम् शिवभक्तौ शिवार्चार्यां शिवमेधे शिवव्रते | श्रद्धाहीनो वसेन्नित्यं नरके कालमक्षयम् || ८ || शिवलिङ्गधरस्य दहननिषेधः शिवलिङ्गधरो विप्रो विपन्नस्तं न दाहयेत् | यदि वा दाहयेत्तस्य ब्रह्महत्या सदा भवेत् || ९ || प्राकृतानां मनुष्याणां दीक्षाविरहितात्मनाम् | दहनोपस्कृतः कार्यः संस्कारो ह्यवसानगः || १० || शिवलिङ्गधरस्य समाधिविधिः शाम्भवानां मुमुक्षूणां संस्कारायैव चोदितः | पितृमेधे श्रूयतेऽसौ समाधिविधिरुत्तमः || ११ || प्. १३४) परमेशोपासकानामनावृत्तिमतां नृणाम् | अवसानविधिः कार्यः समाधिविधिसंयुतः || १२ || गृही वाऽथ यतिर्वापि लिङ्गधारी तनुं त्यजेत् | न देहत् तस्य देहं तु समाधौ गोपयेत्तदा || १३ || समाधिर्मोक्षधर्मोऽयं प्रेतधर्मापवादकः | समाधिसंस्कृतेष्वस्माद्धर्मलोपो न शङ्क्यते || १४ || इति श्रीचन्द्रज्ञानागमे उत्तरभागेऽनन्तरुद्रबृहस्पतिसंवादे शिवशासने चर्यापादे शिवमेधप्रशंसानाम प्रथमः पटलः || १ || द्वितीयः पटलः बृहस्पतिरुवाच अनन्तरुद्र भगवन्ननन्तमहिमोन्नत | उच्चिक्रिमिषुणा पुंसा कर्तव्यं किं निबोध मे || १ || अनन्तरुद्र उवाच उत्क्रान्तिमिच्छतः पुरुषस्य कर्तव्यनिर्देशः उच्चिक्रिमिषुणा पुंसा निवेश्येशे निजं मनः | दानादि कर्तुं स्नातव्यं भस्मना वा जलेन च || २ || धृतधौताम्बरेणोर्व्यामासीनेन कुशासने | उद्धूलनं त्रिपुण्ड्रं च भूत्या धार्यं प्रयत्नतः || रुद्राक्षाणि च धार्याणि यथोक्तं मुनिपुङ्गव || ३ || भस्मरुद्राक्षधारी तु म्रियते यो महीतले | रुद्रत्वमाप्नुते सोऽयं वाक्पते नात्र संशयः || ४ || प्. १३६) स्वात्मन्यग्न्यारोपणम् उत्क्रान्तिं भविनीं ज्ञात्वा निमित्तैः समनन्तरम् | या ते अग्न इति स्वात्मन्यग्नीनारोपयेद् गृही || ५ || अग्निरित्यादिभिर्मन्त्रैर्भस्मनाऽङ्गानि संस्पृशेत् | आत्मन्यारोपितस्यास्य वह्नेः संशमनाय वै || षडध्वशुद्धैः कर्तव्यो ह्यप्सु होमो यथाविधि || ६ || माहेश्वरेभ्यो गोभूहिरण्यादिदानम् हिरण्यमथ गां भूमिं शिवलिङ्गं सुपावनम् | माहेश्वरेभ्यो देयानि शिवसायुज्यकाङ्क्षिणा || ७ || अत्युत्क्रान्तौ प्रवृत्तस्य सुखोत्क्रमणसिद्धये | तुभ्यं सम्प्रददे धेनुमिमामुत्क्रान्तिसंज्ञिताम् || ८ || हिरण्यगर्भसेव्यस्य महादेवस्य तृप्तये | हिरण्यं प्रददे तुभ्यं हेमबीजं महाफलम् || ९ || प्. १३७) पुनरावृत्तिरहितशिवसायुज्यसिद्धये | इदं सम्प्रददे तुभ्यं शिवलिङ्गं सुपावनम् || १० || विश्वम्भराशताङ्गस्य विश्वनाथस्य तृप्तये | इमां सम्प्रददे तुभ्यं परां विश्वम्भरां स्थिराम् || दानान्येवं यथाशक्ति कृत्वा तत्त्वानि योजयेत् || ११ || सर्वाङ्गलिङ्गसाहित्यकथनम् आयुषः प्राणमित्यादि मन्त्रान् सम्यगनुस्मरन् | सर्वाङ्गलिङ्गसाहित्यं ततः कुर्यात् प्रयत्नतः || १२ || सर्वेष्वङ्गेषु सर्वत्र सर्वदा सर्वतोमुखम् | लिङ्गं गुरूपदेशेन ज्ञातं यत्तत् प्रकाशते || १३ || एकमेव परं लिङ्गमङ्गेऽस्मिन् सुप्रतिष्ठितम् | सर्वतोमुखमाभाति नामरूपक्रियात्मना || १४ || इष्टलिङ्गं तु बाह्याङ्गे प्राणलिङ्गं तथान्तरे | भावलिङ्गं तथैवाऽस्मिन्नात्माङ्गे सुप्रतिष्ठितम् || १५ || हृदयाङ्गे महालिङ्गं श्रोत्राङ्गे तु प्रसादकम् | त्वगङ्गे चरलिङ्गं तु दृगङ्गे शिवलिङ्गकम् || १६ || प्. १३८) जिह्वाङ्गे गुरुलिङ्गं तु नासिकाङ्गे तथैव च | आचारलिङ्गमश्रान्तं सुप्रतिष्ठितमेव हि || १७ || यथा ज्ञानेन्द्रियाङ्गेषु क्रमाल्लिङ्गं प्रतिष्ठितम् | तथा कर्मेन्द्रियाङ्गेषु क्रमाल्लिङ्गं प्रतिष्ठितम् || १८ || अप्रतर्क्यमनिर्देश्यमवाङ्मानसगोचरम् | ससर्वशक्ति सर्वज्ञं सच्चिदानन्दलक्षणम् || १९ || भावयन्नेति तद्भावं भावपूतेन चेतसा | गणान् शम्भोरनुज्ञाप्य प्रायश्चित्तं समाचरेत् || २० || प्रायश्चित्तविधानम् ये वर्णाश्रमधर्माणामनाचरणसम्भवाः | ये त्वष्टावरणन्यूनताश्रिता व्रतलोपजाः || ये च पञ्चाचारलोपसम्भूता भक्तिलोपजाः || २१ || मनोवक्कर्मजा दोषास्तेषां हि विनिवृत्तये | माहेशसन्निधौ सर्वप्रायश्चित्तं करोम्यहम् || २२ || गुरुजङ्गमयोः पूजनम् इति संकल्प्य सम्पूज्य भक्त्या गुरुचरेश्वरान् | सन्तर्प्य धनवस्त्राद्यैः पिबेत् तत्पादतीर्थकम् || २३ || प्. १३९) यस्य वक्त्रेऽन्त्यकाले तु माहेश्वरपदोदकम् | दीयते स हि पूतात्मा शिवसायुज्यमाप्नुयात् || २४ || महालिङ्गविभावनम् शिवनाम पठन् दिव्यं महालिङ्गं विभावयन् | प्रायोपवेशं कुर्वीत शिवलीनमताः स्वयम् || २५ || अनन्तरं कर्णमन्त्रान् श्रावयेयुः सुतादयः | षडक्षरं दक्षकर्णे तथोपनिषदः शिवाः || २६ || कर्पूरं ज्वालयेत् पश्चादुत्क्रान्तिसमये तदा | अणुः पन्थेत्यर्चिरादिगतिमन्त्रं समुच्चरन् || २७ || इति श्रीचन्द्रज्ञानागमे उत्तरभागेऽनन्तरुद्रबृहस्पतिसंवादे शिवशासने चर्यापादे उत्क्रान्तिसमयाचारवर्णनं नाम द्वितीयः पटलः || २ || तृतीयः पटलः बृहस्पतिरुवाच अनन्तरुद्र भगवन्नखिलज्ञानभासुर | अनन्तरं समुत्क्रान्तेः कार्यं कर्तुर्वदस्व मे || १ || अनन्तरुद्र उवाच उत्क्रान्तिकार्यकर्तृक्रमः आदौ कर्तृक्रमं वक्ष्ये तच्छ्रणु त्रिदशार्चित | पुत्रः पौत्रः प्रपौत्रश्च पुत्रिकापुत्र एव च || २ || तत्सुतो वाऽथवा दत्तस्तत्सन्तानस्तथैव च | धनहारी पतिः पत्नी सपत्नीपुत्र एव च || ३ || पुत्री भ्राता च तत्पुत्रः पिता माता स्नुषा तथा | पौत्री दौहित्रिका चापि पौत्रपत्नी च तत्सुता || ४ || दत्तस्य पत्नी भगिनी भागिनेयश्च सोदकः | मातुः सोदक एवापि सगोत्रः शिष्य एव च || ५ || प्. १४१) ऋत्विग् भृत्यो गुरुश्चैव सहाध्यायी तथैव च | जामाता च सखा चैव राजा च क्रमशः स्मृताः || ६ || उत्क्रान्तिकार्यविवरणम् उत्क्रान्तप्राणमालोक्य कर्ता स्नात्वा धृताम्बरः | धृतत्रिपुण्ड्ररुद्राक्षः कर्माधिकृतिसिद्धये || कुर्याद् गणनमस्कारं दद्याच्च द्रविणं ततः || ७ || दीयते यन्मृताहे तत् सर्वपर्वसु दानतः | विशिष्यते तद्यथाशक्ति दद्याद् द्रविणमात्मजः || ८ || ऊर्ध्वोच्छिष्टादिदोषप्राप्तौ प्रायश्चित्तम् ऊर्ध्वोच्छिष्टादिसम्प्राप्तौ विदध्यान्निष्कृतिं तदा | प्राजापत्यप्रतिनिधिं द्रव्यं देयं हितैषिणा || ९ || प्रासादे वापि खट्वायां मृतौ कुर्याच्च निष्कृतिम् | गां वा हिरण्यं दद्याच्च प्राजापत्यमथापि वा || १० || प्. १४२) सिद्धिं गतस्य संस्कारसमयः सिद्धिं गतस्य तु दिवा कुर्यात् संस्कारमात्मजः | पञ्चविंशघटीपूर्वमथ पर्युषितं भवेत् || ११ || दिवा वा यदि वा नक्तं वपुस्तद्यदसंस्कृतम् | स्यात् पर्युषितमस्यैवं कुर्यात् संस्कारमादितः || १२ || पञ्चगव्येन संस्नाप्य पावमान्याऽभिमन्त्र्य च | जलेन स्नापयित्वा च विधिवन्निखनेत् ततः || १३ || गणप्राणस्य समाधिसंस्कारः गतप्राणशरीरं तु श्रीरुद्रादिमनून् पठन् | संस्नाप्य चाप्यलङ्कृत्य रुद्राक्षैर्भस्मनाऽपि च || १४ || इष्टलिङ्गं करे न्यस्य सम्पूज्य समनन्तरम् | पेटिकायां च विन्यस्य वृणुयाद् वाहकांस्ततः || १५ || पेटिकायां विन्यस्य शिवारामनयनम् महोक्षो वृषभश्चैव नन्दीशो नन्दिकेश्वरः | एतैश्च नामभिर्युक्तंश्चतुरस्तैः शरीरकम् || विमाने सन्निवेश्याथ शिवारामं नयेत्तदा || १६ || प्. १४३) इति श्रीचन्द्रज्ञानागमे उत्तरभागेऽनन्तरुद्रबृहस्पतिसंवादे शिवशासने चर्यापादे उत्क्रान्तिकार्यकर्तृक्रमनिर्णयो नाम तृतीयः पटलः || ३ || चतुर्थः पटलः बृहस्पतिरुवाच प्रमथप्रवरानीकसेव्यमानपदाम्बुज | अनन्तरुद्र विश्वात्मन् नीलकण्ठ नमोऽस्तु ते || १ || अनन्तराणि कृत्यानि कर्तव्यान्यखिलान्यपि | निबोधय महेशान शिवारामप्रवेशनात् || २ || अनन्तरुद्र उवाच मृतस्य शिवारामप्रवेशनम् शिवालयसमीपे वा शिवारामेऽथवा पुनः | विल्ववृक्षस्य मूले वा शिवतीर्थसमीपके || ३ || समाधिं कारयित्वा तां तनुं तत्र यथाविधि | निधाय पूरयेद् गर्तं भस्मना मृत्स्नयाऽपि च || वस्त्रं तु धारयित्वाऽतः सचेलस्नानमाचरेत् || ४ || केशवपनावश्यकत्वम् ब्राह्मणस्वर्णघातादिपापानि विविधानि च | केशानाश्रित्य तिष्ठन्ति तस्मात्केशान् वपाम्यहम् || ५ || प्. १४५) मेरुमन्दरतुल्यानि पापानि विविधानि च | केशानाश्रित्य तिष्ठन्ति तस्मात् केशान् वपाम्यहम् || इति मन्त्रेण संकल्प्य केशश्मश्रूणि वापयेत् || ६ || अग्नेरिव शिखा यस्य विद्या ज्ञानमयी शिखा | स शिखीत्युच्यते विद्वन्नितरे केशधारिणः || ७ || वपनान्तरकृत्यानि वपनानन्तरं स्नात्वा भूतिरुद्राक्षसंयुतः | गृहीत्वा च गणानुज्ञां दिव्यरूपाप्तये पितुः || ८ || नवभिः पञ्चभिर्वापि शोभितं वृषभैः परम् | लिङ्गं तु पितृनामाङ्कं समाधौ स्थापयेत् तदा || दश दानानि दद्याच्च लिङ्गं च परिपूजयेत् || ९ || क्षीरादिना तर्पणम् मृद्घट्टनोपजनितसन्तापस्योपशान्तये | क्षीरादितर्पणं कार्यमादशाहं तथाऽन्वहम् || १० || प्. १४६) इष्टादीनि च लिङ्गानि पितरं चापि तर्पयेत् | पित्रे नित्यं प्रदद्याच्च त्रिसंख्यानुदकाञ्जलीन् || ११ || नग्नप्रच्छादनाराधनम् प्रविश्य दीपसहितं भवनं ज्ञातिभिः सह | नग्नप्रच्छादनाभिख्यं कुर्यादाराधनं ततः || १२ || समाधिस्थापितलिङ्गस्य चालनप्रतिषेधः समाधिस्थापितं लिङ्गमादशाहं न चालयेत् | जन्त्वादिभिश्चालितेऽस्मिन् यथा स्थानं निधाय तत् || प्राणायामत्रयं कृत्वा स्पृष्ट्वा तद्व्याहृतीर्जपेत् || १३ || समाधिस्थापितं लिङ्गमादशाहं प्रपूजयेत् | दशाहपूजाविधिना दिव्यरूपं प्रजायते || १४ || आराधनविधिनिरूपणम् आराधनं ततः कार्यं दिव्यरूपवतः पितुः | एकोद्दिष्टविधानेन रुद्रत्वं भवति ध्रुवम् || प्. १४७) तत्त्वसंयोजनेनैव महेशत्वं पुनर्भवेत् || १५ || प्रथमेऽह्नि तृतीये च पञ्चमे सप्तमे तथा | नवमैकादशाह्नोश्च नवाराधनमाचरेत् || १६ || आसप्तमा ज्ञातयश्च कर्ता च दशमेऽहनि | वापयित्वा च स्नात्वा च ते कुर्युः क्षीरतर्पणम् || दद्यादेव यथाशक्ति दश दानानि संयुतः || १७ || सवृषलिङ्गोद्वासनम् उद्वास्य सवृषं लिङ्गं वसने च निधाय तत् | तीर्थमानीय पृथिवीं यच्छेति च मनुं पठन् || विसृजेत् तत्र लिङ्गं च दिव्यरूपमनुस्मरन् || १८ || गाणपत्याहोम आनन्दहोमश्च एवमुद्वास्य च स्नात्वा तिलामलकवारिभिः | गाणपत्याभिधं होमं तथैवानन्दसंज्ञकम् || कुर्यात् पितृर्गणैः साकमानन्दसमवाप्तये || ११ || प्. १४८) एकादशेऽहनि स्नात्वा विप्रान् विज्ञान्निमन्त्र्य च | रुद्रहोमं विधायाथ वृषोत्सर्जनमाचरेत् || २० || उत्सृजेद् वृषभं श्वेतं रोहितं नीलमेव वा | तृप्त्या वै नन्दिकेशस्य शिवसान्निध्यसिद्धये || २१ || षोडशाराधनक्रमः आद्यमासिकमुख्यानि षोडशाराधनानि च | रुद्रगणाराधनं च वृषोत्सर्गाभिधं तथा || २२ || आचारादिकषड्लिङ्गस्थल षट्कसमाश्रयम् | अनुत्तरं च पञ्चाशद् रुद्राराधनमाचरेत् || २३ || आद्यमेकादशेऽह्नि स्यादूने मास्यूनमासिकम् | त्रैपक्षिकं त्रिपक्षे स्यादूनषाण्मासिकं तथा || २४ || प्. १४९) मासि षष्ठे किञ्चिदूने कर्तव्यं सम्प्रकीर्तितम् | प्रतिमासं मृताहस्सु ऊनाब्दं चेति षोडश || २५ || आषोडशान्न वै तस्य जीवभावो निवर्तते | षोडशाराधनं कार्यमेकोद्दिष्टविधानतः || २६ || तत्त्वसंयोजनम् अकृत्वा षोडशविधिं न कार्यं तत्त्वयोजनम् | द्वादशेऽह्नि पितुस्तत्त्वसंयोजनचिकीर्षुणा || अवश्यं हि विधेयानि षोडशाराधनान्यपि || २७ || एकोद्दिष्टविधानेन तत्त्वसंयोगसिद्धये | क्रियते यदेकमुद्दिश्य चैकोद्दिष्टं प्रकीर्तितम् || २८ || विश्वेदेवावाहनं च नाभिश्रवणकीर्तनम् | प्रदक्षिणविसर्गे वा सीमान्तगमनं नहि || २९ || प्. १५०) रुद्राराधनम् एकादशेऽह्नि माहेशान् रुद्ररूपतयाऽर्चयेत् | यथा सम्भवमेतद्धि रुद्राराधनमुच्यते || ३० || वृषोत्सर्गफलावाप्त्यै विप्रमेकं समर्चयेत् | वृषोत्सर्गाख्यमाराधनमितीदं सम्प्रचोदितम् || ३१ || आचारादिकषड्लिङ्गस्थलषट्कसमाश्रयम् | खड्गेशादिकपञ्चाशद् रुद्राराधनमाचरेत् || ३२ || चत्वारः षड् दश तथा रुद्रा द्वादश षोडश | द्वावित्याचारलिङ्गादिस्थलषट्कसमाश्रयाः || ३३ || आधारादिकषट्चक्रवर्तिषड्लिङ्गसंश्रयाः | चतुरादिकसंख्याद्यास्तत्तच्चक्रदलाश्रिताः || ३४ || षट्स्थलेषूपास्यमाना वर्णरूपतया स्थिताः | अर्चनीया हि पञ्चाशद् रुद्राः षड्लिङ्गतृप्तये || ३५ || प्. १५१) द्वादशेऽह्नि तु कर्तव्यं तत्त्वसंयोजनं पितुः | पुरुषस्य चतुर्थस्य निवृत्त्यर्थं प्रयत्नतः || तत्त्वादियोजनेनैव चतुर्थो हि निवर्तते || ३६ || लिङ्गाङ्गसङ्गिनः सा पिण्ड्यनिषेधः लिङ्गाङ्गसङ्गिनि मृते सा पिण्ड्यं न विधीयते | शिवलिङ्गाङ्गयोगेन शिवभावयुजः पितुः || न योज्यमेव सा पिण्ड्यं प्रेतभावनिवर्तकम् || ३७ || कलातत्त्वाराधनक्रमः महेश्वरादिभिन्नेभ्यः पितृभ्यस्तत्त्वसंयुताः | कला आवाह्य पात्रे तु समभ्यर्च्य पितुस्तदा || वर्गत्रयैक्यसिद्ध्यर्थं तत्त्वादीन् योजयेत् सुतः || ३८ || तत्त्वसंयोगविधिनाऽनुष्ठितेन यथाविधिः | महेशत्वादिसंसिद्धिः पित्रादेः स्यादसंशयम् || ३९ || प्. १५२) अहनि द्वादशे कर्ता निमन्त्र्य विदुषो द्विजान् | गणाभ्यनुज्ञां संगृह्य चैवं संकल्पमाचरेत् || ४० || पितुस्तदीयपित्राद्यैः करिष्यन् तत्त्वयोजनम् | नन्दिकेशमहाकालसंज्ञिनोर्विश्वदेवयोः || ४१ || पितुः पितामहादीनां महेशादिस्वरूपिणाम् | षट्त्रिंशतां च तत्त्वानां कलानामष्टत्रिंशताम् || आराधनं करिष्यामीत्येवं संकल्पमाचरेत् || ४२ || विश्वेदेवौ च पित्रादीन् तत्त्वानि च कलास्तदा | आवाह्य चाभिसम्पूज्य चिकीर्षुस्तत्त्वयोजनम् || गवादिदशदानानि कुर्यात् सन्तृप्तये पितुः || ४३ || तत्त्वानां च कलानां च संयोजनमतः परम् | कृत्वोनमासिकादीनि यथाकालं समाचरेत् || ४४ || प्. १५३) इत्यौर्ध्वदेहिकविधिः शिवाश्रमनिषेविणाम् | बोधितस्तव वागीश निगमागमसम्मतः || ४५ || इति श्रीचन्द्रज्ञानागमे उत्तरभागेऽनन्तरुद्रबृहस्पतिसंवादे शिवशासने चर्यापादे और्ध्वदेहिकविधिकथनं नाम चतुर्थः पटलः || ४ || पञ्चमः पटलः बृहस्पतिरुवाच अनन्तगुणवाराशे अनन्तकरुणाकर | अनन्तरुद्र भगवन् प्रणतोऽस्म्यनुगृहाण माम् || प्रकीर्णकविधिं ब्रूहि विधाने ह्यौर्ध्वदेहिके || १ || अनन्तरुद्र उवाच प्रकिर्णविधिनिरूपणम् गीष्पते ते प्रवक्ष्यामि प्रकीर्णकविधिं परम् | येन सम्यङ् निवर्तेरन् कर्तॄणां सर्वसंशयाः || २ || पूर्वशैवाद्युक्तपितृगणः विश्वदेवौ पूर्वशैवे रुद्रानन्तसमाह्वयौ | स्कन्दश्चण्डो गणेशश्च पितरः परिकीर्तिताः || ३ || नन्दी चैव महाकालो विश्वेदेवौ तदुत्तरे | पितरः स्युर्महेशश्च सदाशिवशिवौ मतौ || ४ || वस्वादिरूपाः पितरः पितृलोकनिवासिनः | महेश्वरादिरूपाः स्युर्मम लोकनिवासिनः || ५ || प्. १५५) शैवश्राद्धेषु वर्ज्यानि अपसव्यं तिलान् पिण्डं विकिरं चाग्निकर्म च | अर्घ्यपात्रं च मतिमान् शैवश्राद्धेषु वर्जयेत् || ६ || ग्राह्यद्रव्याणि निषिध्यन्ते क्वचिद्दर्भा आगमे यद्यपि क्वचित् | तदत्यावश्यकत्वस्य निषेधस्तेन गृह्यताम् || ७ || श्रीगन्धश्चाक्षतो धूपो दीपः सज्याश्च वर्तिकाः | पुष्पाणि बिल्वपत्राणि दक्षिणा वसनानि च || ताम्बूलं भस्मघुटिका द्रव्याण्याराधने स्मृताः || ८ || तत्त्वसंयोजनक्रमः दम्पत्यो सह लिङ्गैक्ये समाध्यादिक्रियाः सह | प्राक्समाधेरन्यसिद्धौ तदूर्ध्वं चेत्क्रियाः पुनः || ९ || अनुजेन पितुः कर्म कृतं चेज्ज्येष्ठ आगतः | एकोद्दिष्टं विना कुर्यात् तत्त्वसंयोजनं पुनः || १० || प्. १५६) ज्येष्ठेन तु पितुः कर्म कृतं चेत्तत आगतः | दशाहान्तेऽनुजः कुर्यात् पार्वणाराधनं पुनः || कनिष्ठोऽप्याहिताग्निस्तु कुर्याद्वै तत्त्वयोजनम् || ११ || दशाहमध्ये चेत्कर्तुः शावाशौचान्तरागमः | तस्य शुद्धिः पूर्वशेषादेकोद्दिष्टं यथोदितम् || १२ || तत्त्वसंयोजनं कुर्यात् पित्रादेः प्रयतः सुतः | ततः संवत्सरे पूर्णे द्वादशाहेऽथवा सुधीः || १३ || तत्त्वसंयोजनं कुर्याद् वत्सरान्ते यदा पुनः | ऊनाब्दिकात् परं कुर्यादाब्दिकात् पूर्ववासरे || १४ || द्वादशाहप्रभृतिषु षट्सु कुर्याद्दिनेषु वा | त्रिपक्षे मासि षष्ठे वा वत्सरान्ते शुभागमे || १५ || प्. १५७) एकादशाह एवाथ यदि दर्शः समापतेत् | तदैव तद्विधायादौ पितृयज्ञं समाचरेत् || पितुर्महागुरोः कुर्यात् त्रयोदशदिने तथा || १६ || तत्त्वसंयोजनषोडशाराधनयोर्व्यवस्था तत्त्वसंयोजनमृते षोडशाराधने कृते | संवत्सरे व्यतीते तु पुनः कुर्वीत षोडशम् || १७ || तत्त्वसंयोजनादर्वाक् षोडशाराधनानि च | एकोद्दिष्टविधानेन कुर्यात् सर्वाण्यतन्द्रितः || १८ || तत्त्वसंयोजनादूर्ध्वं यदा कुर्यात्तदा पुनः | प्रत्यब्दं यो यथा कुर्यात् तथा कुर्याद्विचक्षणः || १९ || तत्त्वसंयोजनं कृत्वा कुर्यात् पार्वणवत् ततः | प्रत्याब्दिकाराधनादीन् विधिरेष सनातनः || २० || तत्वसंयोजनादूर्ध्वमेकोद्दिष्टं विधीयते | यत्र तत् दैवयुक्तं स्याद्दैवहीनं वृथा भवेत् || २१ || तत्त्वसंयोजनाकरणे प्रत्यवायः | तत्त्वसंयोजनविधिमकृत्वा शुभकर्मकृत् | प्रत्यवैति ध्रुवं श्रेयो नाप्नुयादिति निश्चयः || प्. १५८) मुख्येऽन्यस्मिन् कर्तरि तु शुभं कर्म समाचरेत् || २२ || द्वादशाहं समारभ्य तृप्तये वत्सरावधि | दद्यादहरहः कुम्भं सजलं सप्रसादकम् || २३ || पितुः शिवपदप्राप्त्यै तत्त्वसंयोजनात् परम् | आहिताग्निस्तु कुर्वीत पितृयज्ञं विधुक्षये || २४ || द्विविधमाराधनं तस्य त्रैविध्यं च एकोद्दिष्टं पार्वणं चेत्युक्तमाराधनं द्विधा | नित्यं नैमित्तिकं काम्यमिति तत्त्रिविधं पुनः || २५ || आब्दिकं दार्शिकं चैव तन्महालयसंज्ञकम् | दैनन्दिनं च नियतोपाधिकं नित्यमुच्यते || २६ || संक्रान्तौ ग्रहणे चोक्तं तत्त्वसंयोजनं तथा | एकोद्दिष्टं वृद्धिसंज्ञं नैमित्तिकमुदाहृतम् || २७ || मन्वादौ च युगादौ च तथा लभ्येषु प्रायशः | योगेषु क्रियते यत्तत् काम्यमित्यभिधीयते || २८ || प्. १५९) श्राद्धपदनिरुक्तिः पित्रोराराधनं सर्वमास्तिक्यमतिभिर्नरैः | श्रद्धया क्रियते यस्माच्छ्राद्धमित्यभिधीयते || २९ || अपेक्षितं न प्रयच्छेत् सम्पादितपदार्थके | न स तत्फलमाप्नोति कृपणो गर्ह्यचेतनः || ३० || श्राद्धभोक्तृणां नियमाः साधितेषु पदार्थेषु याचितव्यमपेक्षितम् | अन्यथा स पितृघ्नः स्यादसन्तृप्तान्नभोजनः || ३१ || भोक्ता तु दक्षिणां नेच्छेत् कर्ता दद्याच्च दक्षिणाम् | कृतार्थौ तावुभौ स्यातामन्यथा दोषभाजनौ || ३२ || कर्ममध्ये तु यो ब्रूते नालं मे दक्षिणेति च | कर्ताऽपि चेन्न प्रयच्छेत् तौ दुर्गतिमवाप्नुतः || ३३ || प्. १६०) देशकालादिषु विशेषः विप्लवे देशकालाभ्यां विदेशगमनादिषु | चन्द्रसूर्योपरागे च हेम्ना वाऽमेन वा पुनः || कार्यमाराधनं प्रत्याब्दिकमासिकवर्जितम् || ३४ || इति श्रीचन्द्रज्ञानागमे उत्तरभागेऽनन्तरुद्रबृहस्पतिसंवादे शिवशासने चर्यापादे प्रकीर्णकविधिकथनं नाम पञ्चमः पटलः || ५ || षष्ठः पटलः बृहस्पतिरुवाच अनन्तरुद्र सर्वज्ञ सर्वागमविशारद | आशौचशुद्धिं वद मे कृपया करुणाकर || १ || अनन्तरुद्र उवाच द्विविधमाशौचं पुनश्चतुर्धां आशौचशुद्धिं वक्ष्यामि शृणुष्वावहितो मुने | जनिजं मृतिजं चेति प्रोक्तमाशौचकं द्विधा || तदल्पमधिकं पूर्णमपूर्णं च चतुर्विधम् || २ || कालतोऽल्पाधिकं ज्ञेयमपूर्णं तु त्रिरात्रकम् | पूर्णं दशाहं विज्ञेयं सुरलोकाभिवन्दित || ३ || आशौचे दिवसव्यवस्था मातुस्त्रिरात्रं स्रावे स्यात् तज्ज्ञातीनां न विद्यते | माससंख्यं हि मातुः स्यात् पाते तं त्रिदिनं पितुः || ४ || प्. १६२) विप्राणां तु दशाहं स्यान्नृपाणां द्वादशाहकम् | विशां पञ्चदशाहं स्यान्मासः शूद्रस्य चोदितम् || ५ || अतिक्रान्ते दशाहे तु जाताशौचं न विद्यते | ज्ञातीनां शुद्धिव्यवस्था मृते जाते हि ज्ञातीनां शुद्धिः स्यात् स्नानमात्रतः || सोदराणां च दम्पत्योर्विशुद्धिः स्याद्दशाहतः || ६ || मृतावनुपनीतस्य पित्रोस्तु त्रिदिनं स्मृतम् | उपनीतस्य तु मृतौ दशाहं सम्प्रकीर्तितम् || ७ || आसप्तमं दशाहं स्यात्त्रिरात्रं त्वाचतुर्दशम् | स्नानमात्रं त्वैकविंशमाशौचं विद्यते मुने || ८ || मातुलादिमृतौ ज्ञेयं त्रिरात्रं सुरसन्नुत | बान्धवानां तु मरणे पक्षिणी विहिता पुनः || ९ || प्. १६३) त्रिरात्रमात्रिमासं स्यादाषण्मासं तु पक्षिणी | आवत्सरमहोरात्रं ततः स्नात्वा विशुद्ध्यति || १० || आशौचानां तन्त्रेण निवृत्तिः तन्त्रेणैव विशुद्धिः स्यादनेकेषां समागमे | अल्पं समानमपि च प्रथमेन निवर्तते || आशौचमन्यदीयं तु पित्राशौचेन बाध्यते || ११ || शवानुगमने विप्रः स्नात्वोद्धूल्य च भस्मना | प्राणानायम्य षट्कृत्वः शिवं दृष्ट्वा विशुद्ध्यति || १२ || आशौचाप्रवृत्तिः यतीनां च वनस्थानां नैष्ठिकानां च वर्णिनाम् | जनिजं मृतिजं वाऽपि नाशौचमिह विद्यते || १३ || सद्यःशौचव्यवस्था यज्ञे विवाहे दाने च संग्रामे देशविप्लवे | आपद्यपि च कष्टायां सद्यःशौचं विधीयते || १४ || दैवेषु राजकीयेषु साङ्घिकेषु च कर्मसु | नियुक्तानां तु सर्वेषां सद्यःशौचं विधीयते || १५ || प्. १६४) सन्ध्यादिष्वाशौचाप्रवृत्तिः स्वकर्मकाले संशुद्धिः सर्वशास्त्रेषु चोदिता | अतः सन्ध्यामर्चनमप्याशौचे न परित्यजेत् || १६ || संशुद्धिः संग्रहेणोक्ता सकलागमचोदिता | मुनिवृन्दारकस्तुत्य किमन्यच्छ्रोतुमिच्छसि || १७ || इति श्रीचन्द्रज्ञानागमे उत्तरभागेऽनन्तरुद्रबृहस्पतिसंवादे शिवशासने चर्यापादे आशौचशुद्धिकथनं नाम षष्ठः पटलः || ६ || सप्तमः पटलः बृहस्पतिरुवाच अपारमहिमाधारानन्तरुद्र नमोऽस्तु ते | प्रायश्चित्तविधिं ब्रूहि सर्वदोषनिवर्तकम् || १ || अनन्तरुद्र उवाच प्रायश्चित्तविधिनिरूपणम् अतः परं प्रवक्ष्यामि प्रायश्चित्तविधिं परम् | उद्बन्धनमृता मर्त्या निरयं यान्त्यसंशयम् || नाशौचमुदकं तेषां समाधिर्वा विधीयते || २ || उद्बन्धनमृतवाहकानां प्रायश्चित्तम् उद्बन्धनमृतं चैव गोब्राह्मणहतं तथा | संस्पृशन्त्यनुगच्छन्ति वहन्ति निखनन्त्यपि || ये नरास्ते विशुद्ध्यन्ति तप्तकृच्छ्रेण गीष्पते || ३ || प्. १६६) तप्तकृच्छ्रलक्षणम् तप्तक्षीरघृताम्बूनामेकैकं प्रत्यहं पिबेत् | एकरात्रोपवासश्च तप्तकृच्छ्र इतीर्यते || ४ || नहि शुष्कोपवासोऽस्ति शिवाश्रमनिषेविणाम् | उपवासप्रतिनिधिं नक्तभोजनमाचरेत् || ५ || संसर्गप्रायश्चित्तम् आचरेन्न तु संसर्गं पतितैः सर्वदा द्विजः | यावदब्दं हि संगच्छन् प्रायश्चित्तेन शुद्ध्यति || तदूर्ध्वं तत्समः प्रोक्तस्तन्निष्कृत्यै स नार्हति || ६ || चरेत् पञ्चाहसंसर्गे कृच्छ्रं त्रैरात्रिकं द्विजः | प्राजापत्यं दशाहे सान्तपनं द्वादशाहके || ७ || प्. १६७) मासार्धे दशरात्रं स्यात् पराको माससङ्गतौ | चान्द्रायणं द्विमासे च षण्मासे त्वैन्दवद्वयम् || ८ || कृच्छ्रं वत्सरसंसर्गे विदधीत प्रयत्नतः | दिनसंख्याप्रमाणेन चरेद् वा नक्तभोजनम् || ९ || प्. १६८) शृगालादिदष्टप्रायश्चित्तम् द्विजो दष्टः शृगालाद्यैः स गायत्रीं शतं जपेत् | नारी वाऽथ नरो वाऽपि शुना दष्टो द्विजः सकृत् || वृषं प्रदक्षिणीकृत्य सद्यः स्नात्वा विशुद्ध्यति || १० || चण्डालादिहतस्य प्रायश्चित्तम् चण्डालेनाथवा गोभिर्विप्रैर्यस्तु हतो मृतः | विषेणापि मृतो यस्तु तं खनेन्मन्त्रवर्जितम् || प्राजापत्येन शुद्ध्येयुर्वोढारो विप्रवाक्यतः || ११ || वर्षादूर्ध्वं विधेयं स्यात् प्रायश्चित्तं मृतस्य हि | ईशानबलिमाधाय पालाशविधिना खनेत् || यथा विधि विधातव्यं पुत्राद्यैरौर्ध्वदेहिकम् || १२ || चक्रवाकादिप्राणिहिंसकस्य प्रायश्चित्तम् चक्रवाकं कुक्कुटं वा शुकपारावतानपि | नक्राहिटिट्टिभान् हत्वा शुद्ध्यते नक्तभोजनात् || १३ || दद्याद्धिरण्यं विप्राय हत्वैवाऽस्थिमतः पुमान् | प्राणायामेन शुद्ध्येत हत्वा चानस्थिशालिनः || सहस्रसम्मितान् हत्वा शूद्रहत्याव्रतं चरेत् || १४ || प्. १६९) नकुलं मूषकं गोधां गृध्रं कूर्मं च शल्यकम् | काकोलूकबकान् हत्वा त्रिभिर्नक्तैर्विशुद्ध्यति || १५ || चण्डालसंभाषणादिप्रायश्चित्तम् चण्डालेन श्वपाकेन कृते सम्भाषणे तदा | प्राणानायम्य च सकृत् सावित्रीं प्रयतो जपेत् || १६ || चण्डालस्पर्शने स्नायात् दृष्ट्वा भानुं विलोकयेत् | चण्डालैः सह सुप्त्वा तु त्रिभिर्नक्तैर्विशुद्ध्यति || १७ || पात्रादिशुद्धिविधानम् ताम्रकांस्यौ भस्मनैव वस्त्राणि जलशौचतः | परित्यागान्मृण्मयानि शुद्ध्यन्ति बृहतांपते || १८ || श्वकाकगृध्रसंस्पृष्टे बह्वन्ने तु द्विजोत्तमैः | व्यपोह्य किञ्चित् स्पृष्टांशं क्षिप्त्वा भस्मजलान्वितम् || दर्भोल्कया स्पर्शयित्वा ग्राह्यमेतद् भवेत्तदा || १९ || प्. १७०) केशकीटादिसम्पृक्तमन्नं शुद्ध्यति भस्मना | स्नेहः शुद्ध्यति पाकेन ज्वालया गोपयोऽपि च || २० || दारुपात्राणि शुद्ध्यन्ति क्षालनात् तत्क्षणादपि | रजसा शुद्ध्यते नारी नदी वेगेन शुद्ध्यति || २१ || दूषितेषु हि कूपेषु शतकुम्भमितं जलम् | उद्धृत्य पञ्चगव्यस्य क्षेपणाच्छुद्धिमाप्नुयुः || २२ || दहनात् खननाच्चैव धावनादुपलेपनात् | वृष्टेरपि च गोक्रान्त्या भूमिः शुद्ध्यति कालतः || २३ || शवेन दूषितं वेश्म प्रोक्षितं सर्वतो जलैः | गोमयेनोपलिप्तं च धूमैराघ्रापितं शुचिः || २४ || मेध्यामेध्येन्द्रियाणि नाभेरूर्ध्वं यानि खानि मेध्यान्येतानि सर्वशः | अधःस्थितान्यमेध्यानि मला देहादपि च्युताः || २५ || प्. १७१) देहस्थमलविशुद्धिः वसाशुक्रमसृङ्मज्जामूत्रविट्कर्णविण्णखाः | श्लेष्माश्रुदूषिकास्वेदा द्वादशैते नृणां मलाः || २६ || विण्मूत्रोत्सर्गशुद्ध्यर्थं मृद्वार्यादेयमर्थवत् | दैहिकानां मलानां च शुद्धिषु द्वादशस्वपि || २७ || पूर्वेषां षण्मलानां तु शुद्धिरद्भिर्मृदा भवेत् | उत्तरेषां जलेनैव शुद्धिरिष्टा बृहस्पते || २८ || वस्त्रादिविशुद्धिः वस्त्रं चण्डालसंस्पृष्टं क्षालनेन विशुद्ध्यति | मृण्मयं तु परित्यागाद् धान्यं वै मार्जनाच्छुचिः || २९ || मक्षिकामशकाद्यैश्च स्पृष्टं दृष्टमदीक्षितैः | केशकीटैश्च संस्पृष्टं भस्मनाऽन्नं विशुद्ध्यति || ३० || सोमादयो नोच्छिष्टाः सोमे च मधुपर्के चाऽवसरे च निवेदिते | तथा गुरुप्रसादे च नोच्छिष्टत्वं कदाचन || ३१ || प्. १७२) इति श्रीचन्द्रज्ञानागमे उत्तरभागेऽनन्तरुद्रबृहस्पतिसंवादे शिवशासने चर्यापादे प्रायश्चित्तकथनं नाम सप्तमः पटलः || ७ || अष्टमः पटलः बृहस्पतिरुवाच अनन्तरुद्र भगवन् लोकोद्धरणदीक्षित | महापापोपपापानां प्रायश्चित्तं वदस्व मे || १ || अनन्तरुद्र उवाच महापातकोपपातकानां प्रायश्चित्तानि महापातककर्ता तु सम्प्राप्य गुरुसन्निधिम् | दण्डद्रव्यं विधायाथ परां शुद्धिमवाप्नुयात् || २ || अगम्यागमनप्रायश्चित्तम् अगम्यागमने प्रोक्तं शुद्ध्यै चान्द्रायणं व्रतम् | भुनक्ति यस्तु चण्डालीं द्विजोऽज्ञानवशंगतः || ३ || सशिखं वापयित्वा च त्रिवर्षं भैक्षभोजनम् | कृत्वा गोमिथुनं दत्त्वा शुद्धिं प्राप्नोत्यसंशयम् || ४ || पितृदारान् भ्रातृजायां गुरुपत्नीं स्नुषां गतः | प्राजापत्यत्रयं कृत्वा दक्षिणां गोद्वयं दिशेत् || ५ || प्. १७४) अकामां ब्राह्मणीं गत्वा कृच्छ्रचान्द्रायणं चरेत् | सकामां च तदर्धं स्यात् तप्तकृच्छ्रं सकृद्गतौ || ६ || ब्राह्मणीगमने कृच्छ्रं गर्भे सान्तपनं स्मृतम् | राज्ञीगर्भे पराकः स्याद् वैश्यागर्भे त्र्यहोदितम् || शूद्रीगर्भे त्वैन्दवं स्यादेवं शुद्ध्येन्न संशयः || ७ || गर्भिणीं पतितां गत्वा तथा चैव रजस्वलाम् | अतिकृच्छ्रं चरित्वा तु विशुद्ध्यति न संशयः || पशुवेश्यादिगमने प्राजापत्यं समाचरेत् || ८ || अनिच्छन्ती सकृद्भुक्ता या नारी पापकर्मिणा | प्राजापत्येन रजसा शुद्ध्यते नात्र संशयः || ९ || प्. १७५) पादुकाताडनादिप्रायश्चित्तम् पादुकायास्ताडने तु व्रतं चान्द्रायणं चरेत् | बन्दीगृहान्नभुक्तौ तु कृच्छ्रं सान्तपनं चरेत् || १० || अभक्ष्यभक्षणप्रायश्चित्तम् विण्मूत्ररेतः संस्पृटं चण्डालस्यान्नमेव च | गोमांसं च द्विजो भुक्त्वा कृच्छ्रचान्द्रायणं चरेत् || ११ || शूद्रान्नं सूतकान्नं च पूर्वोच्छ्ष्टं तथैव च | भुक्त्वा कृच्छ्रं चरित्वा तु ब्रह्मकूर्चेन शुद्ध्यति || १२ || एकोद्दिष्टादिभोजनप्रायश्चित्तम् एकोद्दिष्टे तु यो भुङ्क्ते तत्त्वसंयोजनेऽपि च | सहस्रसंमितां जप्त्वा स शुद्ध्यति षडक्षरीम् || आब्दिकाराधने भुक्त्वा जपेत् पञ्चाक्षरीं शतम् || १३ || प्. १७६) लशुनादिभक्षणप्रायश्चित्तम् पीयूषं लशुनं श्वेतवृन्ताकफलमेव च | गृञ्जनं च पलाण्डुं च वृक्षनिर्यासमेव च || १४ || देवस्वं च शिलीध्रं च भुक्त्वा विप्रो विशुद्ध्यति | पञ्चगव्यमनुप्रास्य त्रिदिनं नक्तभोजनात् || १५ || क्षुरकर्मादिविशुद्धिः क्षुरकर्मणि वान्ते च प्रेतधूमे च मैथुने | दुःस्वप्ने दुर्जनस्पर्शे नरः स्नात्वा विशुद्ध्यति || १६ || सावित्र्यादिजपस्य महापातकनाशकत्वम् अयुतं चैव सावित्र्याः प्राणायामशतद्वयम् | स्नानद्वादशकं नद्यां तीर्थयात्रा द्वियोजने || प्राजापत्यस्य कृच्छ्रस्य तुल्यमेतच्चतुष्टयम् || १७ || सहस्रपरमां देवीं शतमध्यां दशापराम् | गायत्रीं च जपेन्नित्यं महापातकनाशनम् || १८ || प्. १७७) वामदेव्यं त्रिरावृत्य तदह्नैव विशुद्ध्यति | पौरुषं सूक्तमावृत्य मुच्यते सर्वकिल्बिषात् || १९ || रुद्रैकादशकं जप्त्वा तदह्नैव विशुद्ध्यति | श्रीमत्पञ्चाक्षरीं जप्त्वा तत्क्षणादेव शुद्ध्यति || २० || अथर्वशिरसं चैव नीलरुद्रं तथैव च | सकृज्जप्त्वाऽखिलैः पापैस्तस्मिन्नहनि मुच्यते || त्रिसुपर्णं च जप्त्वैव मुच्यते सर्वकिल्बिषैः || २१ || श्रद्धायाः शिवसायुज्यप्रापकत्वम् यः श्रद्धयैवाचरति विहितं शिवशासने | स श्रीकण्ठप्रसादेन शिवसायुज्यमृच्छति || २२ || शास्त्रस्य गोपनीयता इति ते गदितं सम्यग् गीष्पते शिवशासनम् | रहस्यं सर्वशास्त्रेषु गोपनीयं प्रयत्नतः || २३ || इति श्रीचन्द्रज्ञानागमे उत्तरभागेऽनन्तरुद्रबृहस्पतिसंवादे शिवशासने चर्यापादे प्रायश्चित्तविधिकथनं नामाष्टमः पटलः || ८ || मूलपञ्चाक्षरमन्त्रन्यासाः ओं नमः शिवाय इत्यस्य श्रीमूलपञ्चाक्षरमहामन्त्रस्य वामदेव ऋषिः (शिरसि), पङ्क्तिश्छन्दः (मुखे), श्री सदाशिवो देवता (हृदये), ओं बीजम्, उमा शक्तिः (गुह्ये), शिव इति कीलकं (पादयोः), श्रीसदाशिवप्रीत्यर्थे जपे विनियोगः | सृष्टिन्यासक्रमः (ब्रह्मचारिणाम्) करन्यासः ओं यं ओं सर्वज्ञशक्तिधाम्ने अङ्गुष्ठाभ्यां नमः | ओं वां ओं नित्यतृप्तिशक्तिधाम्ने तर्जनीभ्यां नमः | ओं शीं ओं अनादिबोधशक्तिधाम्ने मध्यमाभ्यां नमः | ओं मं ओं स्वतन्त्रशक्तिधाम्ने अनामिकाभ्यां नमः | ओं नं ओं अलुप्तशक्तिधाम्ने कनिष्ठिकाभ्यां नमः | ओं ओं ओं अनन्तशक्तिधाम्ने करतलकरपृष्ठाभ्यांनमः | देहन्यासः ओं यं ओं ईशानाय नमः शिरसि | ओं वां ओं तत्पुरुषाय नमो मुखे | ओं शिं ओं अघोराय नमो हृदये | ओं मं ओं वामदेवाय नमो गुह्ये | ओं नं ओं सद्योजाताय नमः पादद्वये | ओं ओं ओं प्रणवाय नमः सर्वाङ्गे | अङ्गन्यासः ओं यं ओं सर्वज्ञशक्तिधाम्ने हृदयाय नमः | ओं वां ओं नित्यतृप्तिशक्तिधाम्ने शिरसे स्वाहा | ओं शिं ओं अनादिबोधशक्तिधाम्ने शिखायै वषट् | ओं मं ओं स्वतन्त्रशक्तिधाम्ने कवचाय हुं | ओं नं ओं अलुप्तशक्तिधाम्ने नेत्रत्रयाय वौषट् | ओं ओं ओं अनन्तशक्तिधाम्ने अस्त्राय फट् | प्. १८२) स्थितिन्यासक्रमः (गृहस्थानाम्) करन्यासः ओं शिं ओं अनादिबोधशक्तिधाम्ने मध्यमाभ्यां नमः | ओं वां ओं नित्यतृप्तिशक्तिधाम्ने तर्जनीभ्यां नमः | ओं यं ओं सर्वज्ञशक्तिधाम्ने अङ्गुष्ठाभ्यां नमः | ओं नं ओं अलुप्तशक्तिधाम्ने कनिष्ठिकाभ्यां नमः | ओं मं ओं स्वतन्त्रशक्तिधाम्ने अनामिकाभ्यां नमः | ओं ओं ओं अनन्तशक्तिधाम्ने करतलकरपृष्ठाभ्यां नमः | देहन्यासः ओं शिं ओं अघोराय नमो हृदये | ओं वां ओं वामदेवाय नमो गुह्ये | ओं यं ओं सद्योजाताय नमः पादद्वये | ओं नं ओं ईशानाय नमः शिरसि | ओं मं ओं तत्पुरुषाय नमो मुखे | ओं ओं ओं प्रणवाय नमः सर्वाङ्गे | अङ्गन्यासः ओं शिं ओं अनादिबोधशक्तिधाम्ने कवचाय हुं | ओं वां ओं नित्यतृप्तिशक्तिधाम्ने नेत्रत्रयाय वौषट् | ओं यं ओं सर्वज्ञशक्तिधाम्ने अस्त्राय फट् | ओं नं ओं अलुप्तशक्तिधाम्ने हृदयाय नमः | ओं मं ओं स्वतन्त्रशक्तिधाम्ने शिरसे स्वाहा | ओं ओं ओं अनन्तशक्तिधाम्ने शिखायै वषट् | प्. १८३) संहारन्यासक्रमः (वानप्रस्थसंन्यासिनाम्) करन्यासः ओं नं ओं अलुप्तशक्तिधाम्ने कनिष्ठिकाभ्यां नमः | ओं मं ओं स्वतन्त्रशक्तिधाम्ने अनामिकाभ्यां नमः | ओं शिं ओं अनादिबोधशक्तिधाम्ने मध्यमाभ्यां नमः | ओं वां ओं नित्यतृप्तिशक्तिधाम्ने तर्जनीभ्यां नमः | ओं यं ओं सर्वज्ञशक्तिधाम्ने अङ्गुष्ठाभ्यां नमः | ओं ओं ओं अनन्तशक्तिधाम्ने करतलकरपृष्ठाभ्यां नमः | देहन्यासः ओं नं ओं सद्योजाताय नमः पादद्वये | ओं मं ओं वामदेवाय नमो गुह्ये | ओं शिं ओं अघोराय नमो हृदये | ओं वां ओं तत्पुरुषाय नमो मुखे | ओं यं ओं ईशानाय नमः शिरसि | ओं ओं ओं प्रणवाय नमः सर्वाङ्गे | अङ्गन्यासः ओं नं ओं अलुप्तशक्तिधाम्ने अस्त्राय फट् | ओं मं ओं स्वतन्त्रशक्तिधाम्ने नेत्रत्रयाय वौषट् | ओं शिं ओं अनादिबोधशक्तिधाम्ने कवचाय हुं | ओं वां ओं नित्यतृप्तिशक्तिधाम्ने शिखायै वषट् | ओं यं ओं सर्वज्ञशक्तिधाम्ने शिरसे स्वाहा | ओं ओं ओं अनन्तशक्तिधाम्ने हृदयाय नमः | ########### END OF FILE #######